आश्वमेधिकपर्व

अध्यायः ७७

Aswamedhika Parva (Sanskrit) · Adhyaya 77
अक्षर का आकार

वैशम्पायन उवाच।

`जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा।
विसृज्य याते तुरगे सैन्धवान्प्रति भारत।।'

सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः।
हतशेषैर्महाराज हतानां च सुतैरपि।।

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्।
प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम्।।

अश्वं च तं परामृश्य विषयान्ते विषोपमात्।
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्।।

तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च।
बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम्।।

ततस्ते तं महावीर्या राजानः पर्यवारयन्।
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि।।

ते नामान्यपि गोत्राणि कर्मणि विविधानि च।
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्।।

ते किरन्तः शरव्रातान्वारणप्रतिवारणान्।
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्।।

ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे।
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्।।

ते तमाजघ्निरे वीरं निवातकवचान्तकम्।
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च।।

ततो रथसहस्रेण गजानामयुतेन च।
***ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन्।।

** स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे।
जयद्रथस्य कौरव्य समरे सव्यसाचिना।।

ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन्।
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा।।

स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः।
पञ्चरान्तरसञ्चारी शकुन्त इव भारत।।

ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते।
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः।।

ततो ववौ महाराज मारुतो रोमहर्षणः।
राहुरग्रसदादित्यं पर्वणीव विशाम्पते।।

उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः।
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः।।

मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः।
सप्तर्षयो जातभयास्तथा देवर्षयोपि च।।

शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन्।
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा।।

रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्।।

एवमासीत्तदा वीरे शरवर्षेण संवृते।
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत्।।

तस्य तेनावकीर्णस्य शरजालेन सर्वतः।
मोहात्पपात गाण्डीवमावापश्च करादपि।।

तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा।
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे।।

ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः।
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन्।।

ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च।
ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः।।

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव।
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित्।।

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः।
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः।।

ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः।
ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः।।

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः।
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः।।

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः।
मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः।।

तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली।
अलातचक्रवद्राजञ्शरजालैः समार्पयत्।।

तदिन्द्रजालप्रतिमं बाणजालममित्रहा।
विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत्।।

मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः।
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि सप्तसप्ततितमोऽध्यायः।। 77 ।।