आश्वमेधिकपर्व
अध्यायः ७
संवर्त उवाच।
कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते।
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम्।।
सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः।
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति।।
मरुत्त उवाच।
नारदेन भवान्मह्यमाख्यातो ह्यटता पथि।
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा।।
संवर्त उवाच।
सत्यमेतद्भवानाह स मां जानाति सत्रिणम्।
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः।।
मरुत उवाच।
भवन्तं कथयित्वा तु मम देवर्षिसत्तमः।
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम्।।
व्यास उवाच।
श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः।
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत्।।
ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव।
रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत्।।
वातप्रधानेन मया स्वचित्तवशवर्तिना।
एवं विकृतरूपेण कथं याजितुमिच्छसि।।
भ्राता मम समर्थश्च वासवेन च सङ्गतः।
वर्तते याजने चैव तेन कर्माणि कारय।।
गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः।
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम्।।
नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित्।
याजयेयं कथंचिद्वै स हि पूज्यतमो मम।।
स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज।
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि।।
मरुत्त उवाच।
बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु।
न मां कामयते याज्यं मुनिर्वासववारितः।।
अमरं याज्यमासाद्य याजयिष्ये न मानुषम्।
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये।।
स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः।
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः।।
स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति।
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव।।
सोहमिच्छामि भवता सर्वस्वेनापि याजितुम्।
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः।।
न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम्।
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति।।
संवर्त उवाच।
चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम्।
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव।।
याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ।
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये।।
स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु।
कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम्।।
मरुत्त उवाच।
यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः।
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि।।
मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित्।
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि।।
संवर्त उवाच।
आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु।
याजनं हि ममाप्येव वर्तते हृदि पार्थिव।।
अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम्।
येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि।।
न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः।
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो।।
गमयिष्यामि शक्रेण समतामपि ते ध्रुवम्।
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि सप्तमोऽध्यायः।। 7 ।।