आश्वमेधिकपर्व

अध्यायः ६

Aswamedhika Parva (Sanskrit) · Adhyaya 6
अक्षर का आकार

व्यास उवाच।

अत्राप्युदाहरन्तीमममितिहासं पुरातनम्।
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः।।

देवराजस्य समयं कृतमाङ्गिरसेन ह।
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम्।।

सङ्कल्प्य मनसा यज्ञं करंधमसुतात्मजः।
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत्।।

भगवन्यन्मया पूर्वमभिगम्य तपोधन।
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो।।

तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे।
याज्योस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च।।

बृहस्पतिरुवाच।

न कामये याजयितुं त्वामहं पृथिवीपते।
वृतोस्मि देवराजेन प्रतिज्ञातं च तस्य मे।।

मरुत्त उवाच।

पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम्।
तवास्मि याज्यातां प्राप्तो भजमानं भजस्व माम्।।

बृहस्पतिरुवाच।

अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम्।
मरुत्त गच्छ वा मा वा निवृत्तोस्म्यद्य याजनात्।।

न त्वां याजयितास्म्यद्य वृणु यं त्वमिहेच्छसि।
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति।।

व्यास उवाच।

एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत्।
प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम्।।

देवर्षिणा समागम्य नारदेनि स पार्थिवः।
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत्।।

राजर्षे नातिहृष्टोसि कच्चित्क्षेमं तवानघ।
क्व गतोसि कुतश्चेदमप्रीतिस्थानमागतम्।।

श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ।
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप।।

एवमुक्तो मरुत्तः स नारदेन महर्षिणा।
विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत्।।

मरुत्त उवाच।

गतोस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम्।
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत।।

प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये।
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद।।

व्यास उवाच।

एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह।
आविक्षितं महाराज वाचा संजीवयन्निव।।

राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः।
चङ्कमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः।।

तं गच्च यदि याज्यं त्वां न वाञ्छति बृहस्पतिः।
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति।।

मरुत्त उवाच।

संजीवितोऽहं भवता वाक्येनानेन नारद।
पश्येयं क्व नु संवर्तं शंस मे वदतांवर।।

कथं च तस्मै वर्तेयं कथं मां न परित्यजेत्।
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे।।

नारद उवाच।

उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम्।
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते।।

तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित्।
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते।।

तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान्।
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः।।

पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह।
ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन्।।

स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया।
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया।।

व्यास उवाच।

स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम्।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम्।।

तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः।
कुणपं स्थापयामास नारदस्य वचः स्मरन्।।

यौगपद्येनि विप्रश्च पुरीद्वारमथाविशत्।
ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत।।

स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात्।
आविक्षितो महीपालः संवर्तमुपशिक्षितुम्।।

स च तं विजने दृष्ट्वा पांसुभिः कदेमेन च।
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत्।।

स तथा बाध्यमानो वै संवर्तेन महीपतिः।
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन्।।

ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत्।
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि षष्ठोऽध्यायः।। 6 ।।