आश्वमेधिकपर्व
अध्यायः ८
संवर्त उवाच।
गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः।
तप्यते यत्र भगवांस्तपो नित्यमुपापतिः।।
वनस्पतीनां मूलेषु शृङ्गेषु विषमेषु च।
गुहासु शैलराजस्य यथाकामं यथासुखम्।।
उमासहायो भगवान्यत्र नित्यं महेश्वरः।
आस्ते शूली महातेजा नानाभूतगणावृतः।।
तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा।
यमश्च वरुणश्चैव कुबेरश्च सहानुगः।।
भूतानि च पिशाचाश्च नासत्यावपि चाश्विनौ।
गन्धऱ्वाप्सरसश्चैव यक्षा देवर्षयस्तथा।।
आदित्या मरुतश्चैव यातुधानाश्च सर्वशः।
उपासन्ते महात्मानं बहुरूपमुपापतिम्।।
रमते भगवांस्तत्र कुबेरानुचरैः सह।
विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते।।
श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः।
न रूपं शक्यते तस्य संस्थानं वा कदाचन।
निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः।।
नोष्णं न शिशिरं तत्र न वायुर्न च भास्करः।
न जारा क्षुत्पिपासे वा न मृत्युर्न भयं नृप।।
तस्य शैलस्य पार्श्वेषु सर्वेषु जयतांवर।
धातवो जातरूपस्य रश्मयः सवितुर्यथा।।
रक्ष्यन्ते ते कुबेरस्य सहायैरुद्यतायुधैः।
चिकीर्षद्भिः प्रियं राजन्कुबेरस्य महात्मनः।।
`तत्र गत्वा समन्वास्य महायोगेश्वरं शिवम्।
कुरु प्रणामं राजर्षे भक्त्या परमया यतुः।।'
तस्मै भगवते कृत्वा नमः शर्वाय वेधसे।
`एभिस्तं नामभिर्देवं सर्वविद्याधरं स्तुहि।।'
रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे।
कपर्दिने करालाय हर्यक्ष्णे वरदाय च।।
त्र्यक्ष्णे पूष्णो दन्तभिदे वामनाय शिवाय च।
याम्यायाव्यक्तरूपाय सद्वृत्ते शङ्कराय च।।
क्षेम्याय हरिकेशाय स्थाणवे पुरुषाय च।
हरिनेत्राय मुण्डाय क्रुद्धायोत्तरणाय च।।
भास्वराय सुतीर्थाय देवदेवाय रंहसे।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे।।
गिरिशाय प्राशान्ताय यतये चीरवाससे।
बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च।।
मृगव्याधाय महते धन्विनेऽथ भवाय च।
वराय सोमवक्त्राय सिद्धमन्त्राय चक्षुषे।।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम्।
लेलिहानाय गोष्ठाय सिद्धमन्त्राय वृष्णये।।
पशूनां पतये चैव भूतानां पतये नमः।
वृषाय मातृभक्ताय सेनान्ये मध्यमाय च।।
`अभिवक्त्राय पतये सर्वदेवमयाय च।'
स्रुवहस्ताय पतये धन्विने भार्गवाय च।
अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह।।
तीक्ष्णदंष्ट्राय तीक्ष्णाय वैश्वानरमुखाय च।
महात्मने चानङ्गाय सर्वाय पतये विशाम्।।
`तथा रुद्राय पतये पृथवे कृत्तिवाससे।'
विलोहिताय दीप्ताय दीप्ताक्षाय महौजसे।
वसुरेतःसुवपुषे पृथवे कृत्तिवाससे।।
कपालमालिने चैव सुवर्णमुकुटाय च।
महादेवाय कृष्णाय त्र्यम्बकायानघाय च।।
क्रोधनायानृशंसाय मृदवे बाहुशालिने।
दण्डिने तप्ततपसे तथैवाक्रूरकर्मणे।।
सहस्रशिरसे चैव सहस्रचरणाय च।
नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे।।
पिनाकिनं महादेवं महाभोगिनमव्ययम्।
त्रिशूलहस्तं वरदं त्र्यम्बकं भुवनेश्वरम्।।
त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम्।
प्रभवं सर्वभूतानां दातारं धरणीधरम्।।
ईशानं शङ्करं सर्वं शिवं विश्वेश्वरं भवम्।
उमापतिं पशुपतिं विश्वरूपं महेश्वरम्।।
विरूपाक्षं दशभुजं विष्यन्दं गोवृषध्वजम्।
उग्रं स्थाणुं शिवं रौद्रं शर्वं गौरीशमीश्वरम्।।
शितिकण्ठमजं शुक्रं पृथुं पृथुहरं वरम्।
विश्वरूपं विरूपाक्षं बहुरूपमुपापतिम्।।
प्रणम्य शिरसा देवमनङ्गाङ्गहरं हरम्।
शरण्यं शरणं याहि महादेवं चतुर्मुखम्।।
`विरोचमानं वपुषा दिव्याभरणभूषितम्।
अनाद्यन्तमजं शंभुं सर्वव्यापिनमीश्वरम्।।
निस्त्रैगुण्यं निरुद्वेगं निर्मलं निधिमोजसाम्।
प्रणम्य प्राञ्जलिः शर्वं प्रयामि शरणं हरम्।।
सम्मान्यं निश्चलं नित्यमकारुण्यमलेपनम्।
अध्यात्मवेदमासाद्य प्रयामि शरणं मुहुः।।
यस्य नित्यं विदुः स्थानं मोक्षमध्यात्मचिन्तकाः।
योगीशं तत्वमार्गस्थाः कैवल्यं पदमक्षरम्।।
यं विदुः सङ्गिनं मुक्ताः सामान्यं समदर्शिनः।
तं प्रपद्ये जगद्योनिमयोनिं निर्गुणात्मकम्।।
असृजद्यस्तु भूतादीन्सप्त लोकान्सनातनान्।
स्थितः सत्योपरि स्थाणुस्तं प्रपद्ये सनातनम्।।
भक्तानां सुलभं तं हि दुर्लभं दूरपातिनाम्।
अदूरस्थममुं देवं प्रकृतेः परतः स्थितम्।।
नमामि सर्वलोकस्थं व्रजामि शरणं शिवम्।'
एवं कृत्वा नमस्तस्मै महादेवाय रंहसे।
महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि।।
`लभन्ते गाणपत्यं च तदेकाग्रा हि मानवाः।
किं पुनः स्वर्णिभाण्डानि तस्मात्त्वं गच्छ मा चिरं।।
महत्तरं हि ते लाभं हस्त्यश्वोष्ट्रादिभिः सह।'
सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः।।
व्यास उवाच।
इत्युक्तः स वचस्तस्य चक्रे कारन्धमात्मजः।
`गङ्गाधरं नमस्कृत्य लब्धवान्धनमुत्तमम्।।
कुबेर इव तत्प्राप्य महादेवप्रसादतः।'
ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम्।।
सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः।
`शालाश्च सर्वसम्भारांस्तत्र संवर्तशासनात्।।'
बृहस्पतिस्तु तां श्रुत्वा मरुत्तस्य महीपतेः।
समृद्धिमति देवेभ्यः सन्तापमकरोद्भृशम्।।
सन्तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम्।
भविष्यति हि मे शत्रुः संवर्तो वसुमानिति।।
तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम्।
अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि अष्टमोऽध्यायः।। 8 ।।