आश्वमेधिकपर्व
अध्यायः ६५
ब्राह्मणा ऊचुः।
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः।
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे।।
वैशम्पायन उवाच।
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः।
गिरीशस्य यथान्यायमुपहारमुपाहरत्।।
आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा।।
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिंम्।।
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि।
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः।
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्।।
यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह।
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये।।
कृसरेण च मांसेन निवापैस्तिलसंयुतैः।
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत्।।
ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः।
नक्तंचराणां भूतानां व्यादिदेश बलि तदा।।
धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम्।
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः।।
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः।
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति।।
पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च।
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च।।
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः।
अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान्
तेषां पुण्याहघोषेण तेजसा समवस्थितः।
प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम्।।
ततः पात्री सकरका बहुरूपा मनोरमाः।
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान्।।
बहूनि च विचित्राणि भाजनानि सहस्रशः।
उद्धारयामास तदा धर्मराजो युधिष्ठिरः।।
तेषां रक्षणमप्यासीन्महान्करपुटस्तथा।
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप।।
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशांपते।
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः।।
वारणाश्च महाराज सहस्रशतसंमिताः।
शकटानि रथाश्चैव तावदेव करेणवः।
स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते।।
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्।।
एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः।
महादेवं प्रति ययौ पुरं नागाहयं प्रति।।
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्।
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः।।
सा पुराऽभिमुखा राजन्नुवाह महती चमूः।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चषष्टितमोऽध्यायः।। 65 ।।