आश्वमेधिकपर्व

अध्यायः ६४

Aswamedhika Parva (Sanskrit) · Adhyaya 64
अक्षर का आकार

वैशम्पायन उवाच।

ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः।
रथघोषेण महता पूरयन्तो वसुन्धराम्।।

संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः।
स्वेन सैन्येन संवीता यथाऽऽदित्याः स्वरश्मिभिः।।

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
बभौ युधिष्टिरस्तत्र पौर्णमास्यामिवोडुराट्।।

जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः।
प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः।।

तथैव सैनिका राजन्राजानमनुयान्ति ये।
तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत।।

सरांसि सरितश्चैव वनान्युपवनानि च।
अत्यक्रामन्महाराजो गिरिं चाप्यन्वपद्यत।।

स्मिन्देशे च राजेन्द्र यत्र तद्द्रव्यमुत्तमम्।
चक्रे निवेशनं राजा पाण्डवः सहसैनिकैः।
शिवे देशे समे चैव तदा भरतसत्तम।।

अग्रतो ब्राह्मणान्कृत्वा तपोविद्यादमान्वितान्।
पुरोहितं च कौरव्य वेदवेदाङ्गपारगम्।।

आग्निवेश्यं च राजानो ब्राह्मणाः सपुरोधसः।
कृत्वा शान्तिं यथान्यायं सर्वशः पर्यवारयन्।।

कृत्वा तु मध्ये राजानममात्यांश्च यथाविधि।
षट्पदं नवसङ्ख्यानं निवेशं चक्रिरे जनाः।।

मत्तानां वारणेन्द्राणां निवेशं च यथाविधि।
कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत्।।

अस्मिन्कार्ये द्विजश्रेष्ठा नक्षत्रे दिवसे शुभे।
यथा भवन्तो मन्यन्ते कर्तुमर्हन्ति तत्तथा।।

न नः कालात्ययो वै स्यादिहैव परिलम्बताम्।
इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम्।।

श्रुत्वैतद्व********* ब्राह्मणाः सपुरोधसः।
इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः।।

अद्यैव नक्षत्रिमहश्च पुण्यं
यतामहे श्रेष्ठतमक्रियासु।
तपोभिरद्येह वसाम राज-
न्नुपोष्यतां चापि भवद्भिरद्य।।

श्रुत्वा तु तेषां द्विजसत्तमानां
कृतोपवासा रजनीं नरेन्द्राः।

ऊषुः प्रतीताः कुशसंस्तरेषु
यथाऽध्वरे प्रज्वलिता हुताशाः।।

ततो निशा सा व्यगमन्महात्मनां
संशृण्वतां विप्रसमीरिता गिरः।
ततः प्रभाते विमले द्विजर्षभा
वचोऽब्रुवन्धर्मसुतं नराधिपम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुःषष्टितमोऽध्यायः।। 64 ।।