आश्वमेधिकपर्व
अध्यायः ६६
वैशम्पायन उवाच।
एतस्मिन्नेव काले तु वासुदेवोऽपि वीर्यवान्।
उपायाद्वृष्णिभिः सार्दं पुरं वारणसाह्वयम्।।
समयं वाजिमेधस्य विदित्वा पुरुषर्षभः।
यथोक्तो धर्मपुत्रेण प्रव्रजन्स्वपुरीं प्रति।।
रौक्मिणेयेन सहितो युयुधानेन चैव ह।
चारुदेष्णेन सांबेनि गदेन कृतवर्मणा।।
सारणेन च वीरेण निशठेनोन्मुखेन च।
बलदेवं पुरस्कृत्य सुभद्रासहितस्तदा।।
द्रौपदीमुत्तरां चैव पृथां चाप्यवलोककः।
समाश्वासयितुं चापि क्षत्रिया निहतेश्वराः।।
तानागतान्समीक्ष्यैव धृतराष्ट्रो महीपतिः।
प्रत्यगृह्णाद्यथान्यायं विदुरश्च महामनाः।।
तत्रैव न्यवसत्कृष्णः स्वर्चितः पुरुषोत्तमः।
विदुरेणि महातेजास्तथैव च युयुत्सुना।।
वसत्सु वृष्णिवीरेषु तत्राथ जनमेजय।
जज्ञे तव पिता राजन्परिक्षित्परवीरहा।।
स तु राजा महाराज ब्रह्मास्त्रेणावपीडितः।
शवो बभूव निश्चेष्टो हर्षशोकविवर्धनः।।
हृष्टानां सिंहनादेन जनानां तत्र निःस्वनः।
आविवश दिशःसर्वाः पुनरेवाभ्युपागमत्।।
ततः सोतित्वरः कृष्णो विवेशान्तःपुरं तदा।
युयुधानद्वितीयो वै व्यथितेन्द्रियमानसः।।
ततस्त्वरितमायान्तीं ददर्शं स्वां पितृष्वसाम्।
क्रोशन्तीमभिधावेति वासुदेवं पुनःपुनः।।
पृष्ठतो द्रौपदीं चैव सुभद्रां च यशस्विनीम्।
विक्रोशन्त्यश्च करुणं पाण्डवानां स्त्रियो नृप।।
ततः कृष्णं समासाद्य कुन्ती भोजसुता तदा।
प्रोवाच राजशार्दूल बाष्पगद्गदया गिरा।।
वासुदेव महाबाहो सुप्रजा देवकी त्वया।
त्वं नो गतिः प्रतिष्ठा च त्वदायत्तमिदं कुलम्।।
यदुप्रवीर योऽयं ते स्वस्त्रीयस्यात्मजः प्रभो।
अश्वत्थाम्ना हतो जातस्तमुज्जीवय केशव।।
त्वया ह्येतत्प्रतिज्ञातमैषीके यदुनन्दन।
अहं संजीवयिष्यामि मृतं जातमिति प्रभो।।
सोयं जातो मृतस्तात पश्यैनं पुरुषर्षभ।
उत्तरां च सुभद्रां च द्रौपदीं मां च माधव।।
धर्मपुत्रं च भीमं च फल्गुनं नकुलं तथा।
सहदेवं च दुर्धर्षं सर्वान्नस्त्रातुमर्हसि।।
अस्मिन्प्राणाः समायत्ताः पाण्डवानां ममैव च।
पाण्डोश्च पिण्डो दाशार्ह तथैव श्वशुरस्य मे।।
अभिमन्योश्च भद्रं ते प्रियस्य सदृशस्य च।
प्रियमुत्पादयाद्य त्वं प्रेतस्यापि जनार्दन।।
उत्तरा हि पुरोक्तं वै कथयत्यरिसूदन।
अभिमन्योर्वचः कृष्ण प्रियत्वात्तन्न संशयः।।
अब्रवीत्किल दाशार्ह वैराटीमार्जुनिस्तदा।
मातुलस्य कुलं भद्रे तव पुत्रो गमिष्यति।।
गत्वा वृष्णयन्धककुलं धनुर्वेदं ग्रहीष्यति।
अस्त्राणि च विचित्राणि नितीशास्त्रं च केवलं।।
इत्येतत्प्रणयात्तात सौभद्रः परवीरहा।
कथयामास दुर्धर्षस्तथा चैतन्न संशयः।।
तास्त्वां वयं प्रणम्येह याचामो मधुसूदन।
कुलस्यास्य हितार्तं च कुरु कल्याणमुत्तमम्।।
एवमुक्त्वा तु वार्ष्णेयं पृथा पृथुललोचना।
उद्धृत्य बाहू दुःखार्ता ताश्चान्याः प्रापतन्भुवि।।
अब्रुवंश्च महाराज सर्वाः सास्राविलेक्षणाः।
स्वस्त्रीयो वासुदेवस्य मृतो जात इति प्रभो।।
एवं गते ततः कुन्तीं पर्यगृह्णाज्जनार्दनः।
भूमौ निपतितां चैनां सान्त्वयामास भारत।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि षट्षष्टितमोऽध्यायः।। 66 ।।