आश्वमेधिकपर्व

अध्यायः ६३

Aswamedhika Parva (Sanskrit) · Adhyaya 63
अक्षर का आकार

जनमेजय उवाच।

श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना।
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह।।

रत्नं च यन्मरुत्तेनि निहितं वसुधातले।
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम।।

वैशम्पायन उवाच।

श्रुत्वा द्वैपायनवचो धर्मिराजो युधिष्ठिरः।
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत्।।

अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि।
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना।।

कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता।
तपोवृद्धेनि महता सुहृदां भूतिमिच्छता।।

गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा।
भीष्मेण च महाप्राज्ञ गोविन्देनि च धीमता।।

संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः।
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम्।।

अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः।
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः।।

तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः।
यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि।
तदानयामहे सर्वे कतं वा भीम मन्यसे।।

इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह।
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत्।।

रोचते मे महाबाहो यदिदं भाषितं त्वया।
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति।।

तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो।
कृतमेव महाराज भवेदिति मतिर्मम।।

ते वयं प्रणिपातेन गिरीशस्य महात्मनः।
तदानयामि भद्रं ते समभ्यर्च्य कपर्दिनम्।।

`तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम्।
अनादिनिधनं शंभुं नमस्यामि महेश्वरम्।।'

लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्चि तान्।
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः।।

रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः।
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे।।

`स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः।
ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः।।

वनस्थास्य पुरा जिष्णोरस्त्रं पाशुपतं महत्।
रौद्रं ब्रह्मसिरश्चादात्प्रसन्नः किं पुनर्धनम्।।

वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति।
तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन।।

अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये।
जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि।
प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः।।

तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः।
जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः।।

कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत्।
द्रोणिकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात्।।

तस्यैव च प्रसादेव निहतास्तव शत्रवः।
अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति।'

श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत।
प्रीतो धर्मात्मजो राजा बभूवातीव भारत।
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः।।

कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम्।
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे।।

ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च।
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम्।।

मोदकैः पायसेनाथ मांसापूपैस्तथैव च।
आशास्य च महात्मानं प्रययुर्मुदिता भृशम्।।

तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ।
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते।।

ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च।
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः।।

समनुज्ञाप्य राजानं पुत्रशोकसमाहतम्।
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम्।।

मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम्।
सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः।
`प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः'

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिषष्टितमोऽध्यायः।। 63 ।।