आश्वमेधिकपर्व

अध्यायः ६२

Aswamedhika Parva (Sanskrit) · Adhyaya 62
अक्षर का आकार

वैशम्पायन उवाच।

एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा।
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम्।।

तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः।
दयितस्यि पितुर्नित्यमकरोदौर्ध्वदेहिकम्।।

षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम्।
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम्।।

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत्।
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम्।।

सुवर्णं चैव गाश्चैव शयनाच्छादनानि च।
दीयमानं तदा विप्रः प्रभूतमिति चाब्रुवन्।।

वासुदेवोऽथ दाशार्हो बलेदेवः ससात्यकिः।
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा।
अतीव दुःखसंतप्ता न शमं चोपलेभिरे।।

तथैव पाण्डवा वीरा नगरे नागसह्वये।
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः।।

सुबहूनि च राजेन्द्र दिवसानि विराटजा।
नाभुङ्क्त पतिदुःखार्ता तदभूत्करुणं महत्।।

धियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च।
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा।।

समागम्याब्रवीमान्पृथां पृथुललोचनाम्।
उत्तरां च महातेजाःइ शोकः संत्यज्यतामयम्।।

जनिष्यते महातेजाः पुत्रस्तव यशस्विनि।
प्रभावाद्वासुदेवस्य मम व्याहरणादपि।
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम्।।

धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः।
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत।।

पौत्रस्तव महाभागो जनिष्यति महामनाः।
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः।।

तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन।
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति।।

यच्चापि वृष्णिवीरेणि कृष्णेन कुरुनन्दन।
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा।।

विबुधानां गतो लोकानक्षयानात्मनिर्जितान्।
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा।।

एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः।
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा।।

पिताऽपि तव धर्मेज्ञ गर्भे तस्मिन्महामते।
अवर्धत यथाकामं शुक्लपक्षे यथा शसी।।

ततः संचोदयामास व्यासो धर्मात्मजं नृपम्।
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत्।।

धर्मराजोपि मेधावी श्रुत्वा व्यासस्य तद्वचः।
वित्तोपनयने तात चकार गमने मतिम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विषष्टितमोऽध्यायः।। 62 ।।