आश्वमेधिकपर्व

अध्यायः ६१

Aswamedhika Parva (Sanskrit) · Adhyaya 61
अक्षर का आकार

वैशम्पायन उवाच।

कथयन्नेव तु तदा वासुदेवः प्रतापवान्।
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः।।

अभिमन्योर्वधं वीरः सोत्यक्रामन्महामतिः।
अप्रियं वसुदेवस्य माभूदिति महामनाः।।

मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्।
दुःखशोकाभिसंतप्तो भवेदिति महामतिः।।

सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे।
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि।।

तामपश्यन्निपतितां वसुदेवः क्षितौ तदा।
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः।।

तषः स दौहित्रवदाद्दुःखशोकसमाहतः।
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्।।

ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः।
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्।।

तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो।
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे।

दुर्भरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह।
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते।।

किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति।
मां चापि पुण्डरीकाक्षि चपलाक्षः प्रियो मम।।

आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः।
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम्।।

स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः।
बालभावेन विजयमात्मनोऽकथयत्प्रभुः।

कच्चिन्न निकृतो बालो द्रोणकर्णाकृपादिभिः।
धरण्यां निहतः शेते तन्ममाचक्ष्वि केशव।।

स हि द्रोणं च भीष्मं च कर्णं च बलीनां वरम्।
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम।।

एवंविधं बहु तदा विलपन्तं सुदुःखितम्।
पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत्।।

न तेनि विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि।
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः।।

निहत्य पृथिवीपालान्सहस्रशतसङ्घशः।
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः।।

एको ह्येकेन सततं युध्यमानो यदि प्रभो।
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा।।

समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा।
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे।।

ततः शत्रुवधं कृत्वा सुमहान्तं रेणे पितः।
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः।।

नूनं च स गतः स्वर्गं जहि शोकं महामते।
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः।।

द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः।
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम्।।

स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः।
शस्त्रपूतां हि स गतिं गतः परपुरंजयः।।

तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम।
दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह।।

द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता।
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम्।।

अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः।
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत्।।

उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः।
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह।।

ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा।
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः।।

अभिमन्योऽनुशयिनो मातुलास्ते महारथाः।
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम्।।

आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम।
कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे।

एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम्।
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्।।

सुभद्रे वासुदेवेन तथा सात्यकिना रणे।
पित्रा च लालितो बालः स हतः कालधर्मणा।।

ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि।
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम्।।

कुले महति जातासि क्षत्रियाणां महात्मनाम्।
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे।।

उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे।
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी।।

एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह।
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत्।।

समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च।
यमौ यमोपमौ चैव ददौ दानान्यनेकशः।।

ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह।
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम्।।

वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते।
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम्।।

एवमुक्त्वा ततः कुन्ती विरराम महाद्युते।
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम्।।

एवं स निधनं प्राप्तो दौहित्रस्तव मानद।
संतापं त्यज दुर्धर्ष मा च शोके मनः कृथाः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकषष्टितमोऽध्यायः।। 61 ।।