आश्वमेधिकपर्व
अध्यायः ६०
वसुदेव उवाच।
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम्।
नराणां वदतां पुत्र कथोद्धातेषु नित्यशः।।
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः।
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ।।
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम्।
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम्।।
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः।
नानावेषाकृतिमतां नानादेशनिवासिनाम्।।
वैशम्पायन उवाच।
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके।
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा।।
वासुदेव उवाच।
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम्।
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि।।
प्राधान्यतस्तु गदतः समासेनैव मे शृणु।
कर्माणि पृथिवीशानां यथावदमरद्युते।।
भीष्मः सेनापतिरभूदेकादशचमूपतिः।
कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः।।
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः।
बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना।।
तेषां तदभवद्युद्धं दशाहानि महात्मनाम्।
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम्।।
अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम्।
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना।।
अकरोत्स ततः कालं शरतल्पगतो मुनिः।
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे।।
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः।
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव।।
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः।
संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः।।
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित्।
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा।।
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः।
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत्।।
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे।
नानादिगागता वीराः प्रायशो निधनं गताः।।
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम्।
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः।।
ततः सेनापतिरभूत्कर्णो दौर्योधने बले।
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे।।
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः।
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः।।
ततः पार्थं समासाद्य पतङ्ग इव पावकम्।
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः।।
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः।
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन्।।
हतिवाहनभूयिष्ठाः पाण्डिवास्तु युधिष्ठिरम्।
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन्।।
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः।
तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम्।।
हते शल्ये तु शकुनिं सहदेवो महामनाः।
आहर्तारं कलेस्तस्य जगानामितविक्रमः।।
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः।
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः।।
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान्।
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम्।।
इतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम्।
अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः।।
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः।
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः।।
ततः स निहतो राजा धार्तराष्ट्रो महारणे।
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम्।।
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि।
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता।।
हतपुत्रा हतबला हतमित्रा मया सह।
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः।।
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत।
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात्।।
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने।
विदुरः संजयश्चैव धर्मराजमुपस्थितौ।।
एवं तदभवद्युद्दमहान्यष्टादश प्रभो।
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन्।।
वैशम्पायन उवाच।
शृण्वतां तु महाराज कथां तां रोमहर्षणीम्।
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा।।