आश्वमेधिकपर्व
अध्यायः ५९
जनमेजय उवाच।
उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः।।
वैशम्पायन उवाच।
उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः।।
सरांसि सरितश्चैव वनानि च गिरींस्तथा।
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम्।।
वर्तमाने महाराज महे रैवतकस्य च।
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा।।
अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः।
बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ।।
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च।
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च।।
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह।।
एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः।
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्।
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव।।
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत।
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः।।
प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः।
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः।।
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान्।
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान्।।
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह।
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्।
बभौ परमकल्याणो महस्तस्य महागिरेः।।
पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः।
विहारो वृष्णिवीराणां महे रैवतस्य ह।।
स नानावेश्मसंकीर्णो देवलोक इवाबभौ।
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः।।
`स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः।
साधकः सर्वधर्माणामसुराणां विनाशकः।।
त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित्।
त्वया सत्क्रियते देव ज जानीमोऽत्र मायया।।
केवलं त्वाऽभिजानीमः शरणं परमेश्वरम्।
ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः।।
इति स्तुते मानुषैश्च पूजिते देवकीसुते।'
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट्।।
ततः सम्पूज्यमानः स विवेश भवनं शुभम्।
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम्।।
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः।
कृत्वा नसुकरं कर्म दानवेष्विव वासवः।।
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा।
अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम्।।
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा।
अभ्यवादयत प्रीतः पितरं मातरं तदा।।
ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः।
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः।।
स विश्रान्तो महातेजाः कृतपादावनेजनः।
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकोनषष्टितमोऽध्यायः।। 59 ।।