आश्वमेधिकपर्व

अध्यायः ५८

Aswamedhika Parva (Sanskrit) · Adhyaya 58
अक्षर का आकार

वैशम्पायन उवाच।

स मित्रसहमासाद्य अभिज्ञानमयाचत।
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा।।

सौदास उवाच।

न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः।
एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले।।

इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत्।
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले।।

अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत्।
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव।।

सौदास उवाच।

प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह।
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः।।

सोहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान्।
गतिमन्यां न पश्यामि मदयन्तीसहायवान्।।

न चान्यामपि पश्यामि गतिं गतिमतांवर।
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम।।

न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः।
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम्।।

तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले।
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्य मे।।

उदङ्क उवाच।

राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम्।
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परंतप।।

सौदास उवाच।

ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः।
छेत्तास्मि संशयं तेऽद्य न मेऽत्राश्ति विचारणा।।

उदङ्क उवाच।

प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः।
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः।।

स बवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव।
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ।।

अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः।
भवत्सकाशमागन्तुं क्षमं मम न वेति वै।।

सौदास उवाच।

क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम।
मत्समीपं द्विजश्रेष्ट नागन्तव्यं कथञ्चन।।

एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह।
आगच्छतो हि ते विप्रि भवेन्मृर्त्युन संशयः।।

वैशम्पायन उवाच।

इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम्।
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान्।।

गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः।
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति।।

यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम्।
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत्।।

स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम्।
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः।।

शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम।
पातयामास बिल्वानि तदा स द्विजपुङ्गवः।।

अथ पातयमानस्य बिल्वापहृतचक्षुषः।
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो।।

यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै।
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः।।

सकुण्डलं तदजिनं पपात सहसा तरोः।
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम्।।

अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले।
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः।।

विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले।
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह।।

पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः।
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा।।

[अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत।]
क्रोधामर्षाभिसंतप्तस्तदा ब्राह्मणिसत्तमः।।

तस्य वेगमसह्यं तमसहन्ती वसुन्धरा।
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला।
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात्।।

रथेन हरियुक्तेन तं देशमुपजग्मिवान्।
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम्।।

वैशम्पायन उवाच।

स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः।
उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै।।

इतो हि नागलोको वै योजनानि सहस्रशः।
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव।।

उदङ्क उवाच।

नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया।
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम।।

वैशम्पायन उवाच।

यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा।
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह।।

ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धर।
नागलोकस्य पन्थानमकरोज्जनमेजय।।

स तेन मार्गेण तदा नागलोकं विवेश ह।
ददर्श नागलोकं च योजनानि सहस्रशः।।

प्रकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः।
उपपन्नं महाभाग शातकुम्भमयैस्तथा।।

वापीः स्फटिकसोपाना नदीस्च विमलोदकाः।
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान्।।

तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः।
पञ्चयोजनविस्तारमायतं शतयोजनम्।।

नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा।
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः।।

तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः।
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा।।

धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे।
ऐरावतसुतेनेहि तव्रानीते हि कुण्डले।।

मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन।।
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा।।

उदङ्ग उवाच।

कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति।
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम्।।

अश्व उवाच।

गुरोर्गुरु मां जानीहि ज्वलन्तं जातवेदसम्।
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः।।

विधिवत्सततं विप्र शुचिना भृगुनन्दन।
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम्।।

इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना।
ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया।।

ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत।
घनः प्रादुरभूद्धूमो नागलोकभयावहः।।

तेन धूमेन महता वर्धमानेन भारत।
नागलोके महाराज न प्राज्ञायत किञ्चन।।

हाहाकृतमभूत्सर्वमैरावतिनिवेशनम्।
वासुकिप्रमुखानां च नागानां जनमेजय।।

न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत।
नीहारसंवृतानीव वनानि गिरयस्तथा।।

ते धूमरक्तनयना वह्नितेजोभितापिताः।
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः।।

श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः।
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि।।

सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः।
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति।।

प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च।
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते।।

ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान्।
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत्।।

स गत्वा त्वरितो राजन्गौतमस्य निवेशनम्।
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ।।

वासुकिप्रमुकानां च नागानां जनमेजय।
सर्वं शशंस गुरेव यथावद्द्विजसत्तमः।।

एवं महात्मना तेन त्रींलोकाञ्जनमेजय।
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले।।

एवंप्रभावः स मुनिरुदङ्को भरतर्षभ।
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अष्टपञ्चासोऽध्यायः।। 58 ।।