आश्वमेधिकपर्व

अध्यायः ५७

Aswamedhika Parva (Sanskrit) · Adhyaya 57
अक्षर का आकार

वैशम्पायन उवाच।

स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम्।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम्।।

चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत्।
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः।।

दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम्।
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम।।

उदङ्ग उवाच।

राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम्।
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः।।

राजोवाच।

षष्ठे काले ममाहारो विहितो द्विजसत्तम।
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै।।

उदङ्क उवाच।

एवमस्तु महाराजि समयः क्रियतां तु मे।
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम्।।

संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम।
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर।।

ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा।
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह।
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम।।

उपाहृत्य गुरोरर्थं त्वदायत्तमरिंदम।
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम्।।

सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा।।

सौदास उवाच।

यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः।
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे।।

उदङ्क उवाच।

प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ।
सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले।।

सौदास उवाच।

पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले।
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत।।

उदङ्ग उवाच।

अलं ते व्यपदेशेन प्रमाणं यदि ते वयम्।
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव।।

वैशम्पायन उवाच।

इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः।
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम।।

सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता।
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः।।

उदङ्क उवाच।

क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर।
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति।।

सौदास उवाच।

तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे।
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै।।

वैशम्पायन उवाच।

उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ।
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम्।।

सौदासवचनं श्रुत्वा ततः सा पृथुलोचना।
प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय।।

एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ।
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि।।

इमे हि दिव्ये मणिकुण्डले मे
देवाश्च यक्षाश्च महर्षयश्च।
तैस्तैरुपायैरपहर्तुकामा-
श्छिद्रेषु नित्यं परितर्कयन्ति।।

निक्षिप्तमेतद्भुवि पन्नगास्तु
रत्नं समासाद्य परामृशेयुः।
यक्षास्तथोच्छिष्टधृतं सुराश्च
निद्रावशाद्वा परिधर्षयेयुः।।

छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम।
देवराक्षसनागानामप्रमत्तेनि धार्यते।।

एते दिवापि भासेते रात्रौ च द्विजसत्तम।
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः।।

एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः।
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते।।

ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा।
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके।।

एवंविधे ममैते वै कुण्डले परमार्चिते।
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि सप्तपञ्चाशोऽध्यायः।। 57 ।।