आश्वमेधिकपर्व
अध्यायः ५४
उदङ्क उवाच।
ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम्।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन।।
वासुदेव उवाच।
तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान्।
`स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः।।
कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः।
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ।।
प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम्।'
तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज।।
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्।
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः।।
तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान्।
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज।।
सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम्।।
ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने।
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम्।।
असच्च सच्चैव च यद्विश्वं सदसतः परम्।
ततः परतरं नास्ति देवदेवात्सनातनात्।।
ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह।
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे।।
होतारमपि हव्यं च विद्धिं मां भृगुनन्दन।
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम्।।
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे।
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः।।
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम।
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम।।
मानसं दयितं विप्र सर्वभूतदयात्मकम्।
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः।।
बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम।
लोकसरंक्षणार्थाय धर्मसंस्थापनाय च।।
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव।
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः।।
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च।
अधर्मे वर्तमानानां सर्वेषामहमच्युतः।।
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया।।
यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन।
तदाऽहं देववत्सर्वमाचरामि न संशयः।।
यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन।
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव।।
नागयोनौ यदा चैव तदा वर्तामि नागवत्।
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम्।।
मानुष्ये वर्तमाने तु कृपणं याचिता मया।
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः।।
भयं च महदुद्दिश्य त्रासिताः कुरवो मया।
क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः।।
तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः।।
लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुःपञ्चाशोऽध्यायः।। 54 ।।