आश्वमेधिकपर्व

अध्यायः ५५

Aswamedhika Parva (Sanskrit) · Adhyaya 55
अक्षर का आकार

उदङ्क उवाच।

अभिजानामि जगतः कर्तारं त्वां जनार्दन।
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः।।

चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत।
विनिवृत्तश्च मे कोप इति विद्धि परंतप।।

यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन।
द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय।।

वैशम्पायन उवाच।

ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः।
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः।।

स ददर्श महात्मानं विश्वरूपं महाभुजम्।
सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम्।
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम्।।

तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम्।
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम्।।

उदङ्क उवाच।

`नमोनमस्ते सर्वात्मन्नारायण परात्मक।
परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव।।

हिरण्यगर्भरूपाय संसारोत्तारणाय च।
पुरुषाय पुराणाय शान्तश्यामाय ते नमः।।

अविद्यातिमिरादित्यं भवव्याधिमहौषधिम्।
संसारार्णवसारं त्वां प्रणमामि गतिर्भव।।

सर्ववेदैकवेद्याय सर्ववेदमयाय च।
वासुदेवाय नित्याय नमो भक्तप्रियाय ते।।

दयया दुःखमोहान्मां सुमुद्धर्तुमिहार्हसि।
कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन।।'

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वकसम्भव।
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः।।

द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम्।
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत।।

संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम्।
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम्।।

वैशम्पायन उवाच।

तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय।
वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम्।

पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते।
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम्।।

तमब्रकवीत्पुनः कृष्णो मा त्वमत्र विचारय।
0

उदङ्कक उवाच।

अवश्यं करणीयं च यद्येतन्मन्यसे विभो।
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम्।।

ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः।
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ।।

ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया।
तृषितः परिचक्राम मरौ सस्मार चाच्युतम्।।

ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम्।
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम्।।

भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम्।
तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः।।

स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव।
एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह।
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम्।।

इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दन।
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम्।

पुनःपुनश्च मातङ्ग पिबस्वेति तमब्रवीत्।
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना।।

स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना।
श्वभिः सह महाराज तत्रैवान्तरधीयत।।

उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः।
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना।।

अथ तेनैव मार्गेण शङ्कचक्रगदाधरः।
आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत्।।

न युक्तं तादृशं दातुं त्वया पुरुषसत्तम।
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो।।

इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः।
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत्।।

यादृशेनेह रूपेण योग्यं दातुं धृतेन वै।
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः।।

मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः।
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः।।

स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत्।
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन।।

अमृतं देयमित्येव मयोक्तः स शचीपतिः।
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत्।।

यदि देयमवश्यं वै मातङ्गोऽहं महामते।
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने।।

यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै।
प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो।
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन।।

स तथा समयं कृत्वा तेन रूपेण वासवः।
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्।
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः।।

यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम्।
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम्।।

येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति।
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः।।

रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन।
उदङ्गमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते।।

इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह।
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चपश्चाशोऽध्यायः।। 55 ।।