आश्वमेधिकपर्व
अध्यायः ५३
वैशम्पायन उवाच।
तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः।
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः।।
पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः।
आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः।।
कृच्छ्रेणैव तु तां पार्तो गोविन्दे विनिवेशिताम्।
संजहार ततो दृष्टिं कृष्णश्चाप्यपराजितः।।
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः।
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु।।
वायुर्वेगेन महता रथस्य पुरतो ववौ।
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम्।।
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च।
दिव्यानि चैव पुष्पाणि पुरतः शाङ्गधन्वनः।।
स प्रयातो महाबाहुः समेषु मरुधन्वसु।
ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम्।।
`महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम्।'
स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः।
पूजितस्तेन च तदा पर्यपृच्छदनामयम्।।
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम्।
उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम्।।
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत्।
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि।।
अपि सन्धाय तान्वीरानुपावृत्तोसि केशव।
सम्बन्दिनःक स्वदयितान्सततं वृष्णिपुङ्गव।।
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः।
लोकेषु विहरिष्यन्ति त्वया सह परंतप।।
स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम्।
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव।।
या मे सम्भावना तात त्वयि नित्यमवर्तत।
अपि सा सफला तात कृता ते भरतान्प्रति।।
श्रीभगवानुवाच।
कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति।
नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा।
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा।
महर्षे विदितं भूयः सर्वमेतत्तवानघ।।
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च।
ततो यमक्षयं जग्मुः समासाद्येतरेतरम्।।
पञ्चैव पाण्डवाः शिष्टा इतमित्रा हतात्मजाः।
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः।।
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः।
उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः।।
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः।
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम्।।
न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः।
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन।।
त्वया शक्तेन हि सता मिथ्याचारेणि माधव।
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः।।
वासुदेव उवाच।
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन।
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम्।।
श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै।
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान्।।
न च ते तपसो नाशमिच्छामि तपतां वर।
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः।।
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम।
दुःखार्जितस्य तपसस्तस्मान्नेच्चामि तेऽव्ययम्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि त्रिपञ्चाशोऽध्यायः।। 53 ।।