आश्वमेधिकपर्व

अध्यायः ५२

Aswamedhika Parva (Sanskrit) · Adhyaya 52
अक्षर का आकार

वैशम्पायन उवाच।

ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम्।
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः।।

तथैव चानुयात्राणि चोदयामास पाण्डवः।
सन्नह्यध्वं प्रयास्यामो नगर गजसाह्वयम्।।

इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते।
आचख्युः सज्जमित्येवं पार्थायामिततेजसे।।

ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ।
विकुर्वाणौ कताश्चित्राः प्रीयमाणौ विशाम्पते।।

रथस्थं तु महातेजा वासुदेवं धनञ्जयः।
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम।।

त्वत्प्रसादाज्ज्यः प्राप्तो राज्ञा वृष्णिकुलोद्वह।
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम्।।

नाथवन्तश्च भवता पाण्डवा मधुसूदन।
भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम्।
`भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च।'

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम।
तथा त्वामभिजानामि तथा चाहं भवान्मतः।।

त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन।
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो।।

त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम्।
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम्।।

पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम्।
हसिंतं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते।।

प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः।
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते।।

रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम्।
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध।।

सुदीर्घेणापि कालेन न ते शक्या गुणा मया।
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण।।

विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा।
कृष्णद्वैपायनाच्चेव तथा कुरुपितामहात्।।

त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः।
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ।।

एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन।
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया।।

यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः।
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे।।

भवता तत्कृतं कर्म येनावाप्तो जयो मया।
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः।।

कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः।
सैन्धवस्य च पापस्य भूरिश्रवस एव च।।

`तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा।'
अहं च प्रीयमाणेन त्वया देवकिनन्दन।
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा।।

राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम्।
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ।।

आहृतं हि ममैतत्ते द्वारकागमनं प्रभो।
अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन।
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान्।।

एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम्।
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम्।।

तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम्।

ददृशाते महाराज धृतराष्ट्रं जनेश्वरम्।।

विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम्।
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ।।

धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम्।
गान्धारीं च महाप्रज्ञां पृथा कृष्णां च भामिनीम्।।

सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा।
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः।।

ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ।
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम्।।

गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि।
भीमस्य च महात्मानौ तथा पादावगृह्णताम्।।

क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम्।
`परिष्वज्य महात्मानं वेश्यापुत्रं महारथम्।'
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम्।।

ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान्।
जनार्दनं च मेधावी व्यसर्जयत वै गृहान्।।

तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम्।
धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान्।।

तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः।
कृष्णः सुष्वाप मेधावी धनंजयसहायवान्।।

प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम्।
धर्मराजस्य भनं जग्मतुः परमार्चितौ।
यत्रास्ते स सहामात्यो धर्मराजो महाबलः।।

तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम्।
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ।।

समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ।
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ।।

ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ।
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः।।

विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ।
ब्रूतं कर्तास्मि सर्वं वां नचिरान्मा विचार्यताम्।।

इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत्।
विनीतवदुपागम्य वाक्यं वाक्यविशारदः।।

अयं चिरोषितो राजन्वासुदेवः प्रतापवान्।
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति।।

स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे।
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि।।

युधिष्ठिर उवाच।

पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन।
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो।।

रोचते मे महाबाहो गमनं तव केशव।
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी।।

समेत्यि मातुलं गत्वा बलदेवं च मानद।
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः।।

स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम्।
फाल्गुनं सहदेवं च नकुलं चैव मानद।।

आनर्तानवलोक्य त्वं पितरं च महाभुजः।
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ।।

स गच्छ रत्नान्यादाय विविधानि वसूनि च।
यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत।।

इयं च वसुधा कृत्स्ना प्रसादात्तव केशव।
अस्मानुपागता वीर निहताश्चापि शत्रवः।।

स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम्।
संसारगहने चेद्धपापाग्निप्रशमाम्बुद।।'

एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्।।

तवैव रत्नानि धनं च केवलं
धरा तु कृत्स्ना तु महाभुजाद्य वै।
यदस्ति चान्यद्द्रविणं गृहे मम
त्वमेव तस्येश्वर नित्यमीश्वरः।।

तथेत्यथोक्तः प्रतिपूजितस्तदा
गदाग्रजो धर्मसुतेन वीर्यवान्।
पितृष्वसारं त्ववदद्यथाविधि
सम्पूजितश्चाप्यगमत्प्रदक्षिणम्।।

तया स सम्यक् प्रतिनन्दितस्तत-
स्तथैव सर्वैर्विदुरादिभिस्तथा।
विनिर्ययौ नागपुराद्गदाग्रजो
रथेन दिव्येन चतुर्भुजः स्वयम्।।

रथे सुभद्रामधिरोप्य भामिनीं
युधिष्ठिरस्यानुमते जनार्दनः।
पितृष्वसुश्चापि तथा महाभुजो
विनिर्ययौ पौरजनाभिसंवृतः।।

तमन्वयाद्वानरवर्यकेतनः
ससात्यकिर्माद्रवतीसुतावपि।
अगाधबुद्धिर्विदुरश्च माधवं
स्वयं च भीमो गजराजविक्रमः।।

निवर्तयित्वा कुरुराष्ट्रवर्धनां-
स्ततः स सर्वान्विदुरं च वीर्यवान्।
जनार्दनो दारुकमाह सत्वरः
प्रचोदयाश्वानिति सात्यकिं तथा।।

ततो ययौ शत्रुगणप्रमर्दनः
शिनिप्रवीरानुगतो जनार्दनः।
यथा निहत्यारिगणं शतकतु-
र्दिवं तथाऽऽनर्तपुरीं प्रतापवान्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि द्विपञ्चसोऽध्यायः।। 52 ।।