आश्वमेधिकपर्व

अध्यायः ५१

Aswamedhika Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

ब्रह्मोवाच।

भूतानामथ पञ्चानामथेषामीश्वरं मनः।
नियमे च विसर्गे च भूतानां मन एव च।।

अधिष्ठातृमनो नित्यं भूतानां महतां तथा।
बुद्धिरैश्वर्यमाचष्टे क्षेत्रज्ञश्च स उच्यते।।

इनद्रियाणि मनो युङ्क्ते सदश्वानिव सारथिः।
इन्द्रियाणि मनो बुद्धिः क्षेत्रज्ञे युज्यते सदा।।

महदश्वसमायुक्तं बुद्धिसंयमनं रथम्।
समारुह्य स भूतात्मा समन्तात्परिधावति।।

इन्द्रियग्रामसंयुक्तो मनःसारथिरेव च।
बुद्धिसंयमनो नित्यं महान्ब्रह्ममयो रथः।।

एवं यो वेत्ति विद्वान्वै सदा ब्रह्ममयं रथम्।
स धीरः सर्वलोकेषु न मोहमधिगच्छति।।

अव्यक्तादिविशेषान्तं सहस्थावरजङ्गमम्।।
सूर्यचन्द्रप्रभालोकं ग्रहनक्षत्रमण्डितम्।।

नदीपर्वतजालैश्च सर्वतः परिभूषितम्।
विविधाभिस्तथा चाद्भिः सततं समलंकृतम्।।

अजितं सर्वभूतानां सर्वप्राणभृतां गतिः।
एतद्ब्रह्मवनं नित्यं तस्मिंश्चरति क्षेत्रवित्।।

लोकेऽस्मिन्यानि सत्वानि त्रसानि स्थावराणि च।
तान्येवाग्रे प्रलीयन्ते पश्चाद्भूतकृता गुणाः।
गुणेभ्यः पञ्च भूतानि एष भूतसमुच्छ्रयः।।

देवा मनुष्या गन्धर्वाः पिशाचासुरराक्षसाः।
सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात्।।

एते विश्वसृजो विप्रा जायन्तीह पुनः पुनः।
तेभ्यः प्रसूतास्तेष्वेव महाभूतेषु पञ्चसु।
प्रलीयन्ते यथाकालमूर्मयः सागरे यथा।।

विश्वसृग्भ्यस्तु भूतेभ्यो महाभूतास्तु सर्वशः।
भूतेब्यश्चापि पञ्चभ्यो भुक्तो गच्छेत्परां गतिम्।।

प्रजापतिरिदं सर्वं मनसैवासृजत्प्रभुः।
तथैव देवानृषयस्तपसा प्रतिपेदिरे।।

तपसश्चानुपूर्व्येण फलमूलाशिनस्तथा।
त्रैलोक्यं तपसा सिद्धाः पश्यन्तीह समाहिताः।।

औषधान्यगदादीनि नानाविद्याश्च सर्वशः।
तपसैव प्रसिद्ध्यन्ति तपोमूलं हि साधनम्।।

यद्दुरापं दुराम्नायं दुराधर्षं दुरन्वयम्।
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम्।।

सुरापो ब्रह्महा स्तेनो भ्रूणहागुरुतल्पगः।
तपसैव सुतप्तेन मुच्यते किल्बिषात्ततः।।

मनुष्याः पितरो देवाः पशवो मृगपक्षिणः।
यानि चान्यानि भूतानि चराणि स्थावराणि च।।

तपःपरायणा नित्यं सिद्ध्यन्ते तपसा सदा।
तथैव तपसा देवा महाभागा दिवं गताः।।

आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः।
अहङ्कारसमायुक्तास्ते सकाशे प्रजापतेः।।

ध्यानयोगेन शुद्वेन निर्ममा निरहंकृताः।
आप्नुवन्ति महात्मानो महान्तं लोकमुत्तमम्।।

ध्यानयोगमुपागम्य प्रसन्नमतयः सदा।
सुखोपचयमव्यक्तं प्रविशन्त्यात्मवित्तमाः।।

ध्यानयोगादुपागम्य निर्ममा निरहंकृताः।
अव्यक्तं प्रविशन्तीह महतां लोकमुत्तमम्।।

अव्यक्तादेव सम्भूताः समयज्ञा गताः पुनः।
तमोरजोभ्यां निर्मुक्ताः सत्वमास्थाय केवलम्।।

निर्मुक्तः सर्वपापेभ्यः सर्वं त्यजति निष्कलः।
क्षेत्रज्ञ इति तं विद्याद्यस्तं वेद स वेदवित्।।

चित्तं चित्तादुपागम्य मुनिरासीत संयतः।
यच्चित्तस्तन्मना भूत्वा ग्राह्यमेतत्सनातनम्।।

अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम्।
निबोधत तथा ज्ञानं गुणैर्लक्षणमित्युत।।

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्।
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्।।

कर्म केचित्प्रशंसन्ति मन्दबुद्धितया नराः।
ये तु वृद्धा महात्मानो न प्रशंसन्ति कर्म ते।।

कर्मणा जायते जन्तुर्मूर्तिमान्षोडशात्मकः।
पुरुषं ग्रसते विद्या तद्ग्राह्यममृताशिनम्।।

तस्मात्कर्मसु निःस्नेहा ये केचित्पारदर्शिनः।
विद्यामयोऽयं पुरुषो न तु कर्ममयः स्मृतः।।

य एवममृतं नित्यमग्राह्यं शश्वदक्षरम्।।
वश्यात्मानमसंश्लिष्टं यो वेद न मृतो भवेत्।।

अपूर्वमकृतं नित्यं य एनमविचारिणम्।
य एवं विन्देदात्मानमग्राह्यममृताशनम्।
अग्राह्यो ह्यमृतो भवति स एभिः कारणैर्ध्रुवः।।

आयोज्य सर्वसंस्कारान्संयम्यात्मानमात्मनि।
स तद्ब्रह्म शुभं वेत्ति यस्माद्भूयो न विद्यते।।

प्रसादे चैव सत्वस्य प्रसादं समवाप्नुयात्।
लक्षणं हि प्रसादस्य यथा स्यात्स्वप्नदर्शनम्।।

गतिरेषा तु मुक्तानां ये ज्ञानपरिनिष्ठिताः।
प्रवृत्तयश्च याः सर्वाः पश्यन्ति परिणामजाः।।

एषा गतिर्विरक्तानामेष धर्मः सनातनः।
एषा ज्ञानवतां प्राप्तिरेतद्वृत्तमनिन्दितम्।।

समेन सर्वभूतेषु निस्पृहेण निराशिषा।
शक्या गतिरियं गन्तुं सर्वत्र समदर्शिना।।

एतद्वः सर्वमाख्यातं मया विप्रर्षिसत्तमाः।
एवमाचरत क्षिप्रं ततः सिद्धिमवाप्स्यथ।।

गुरुरुवाच।

इत्युक्तास्ते तु मुनयो गुरुणा ब्रह्मणा तथा।
कृतवन्तो महात्मानस्ततो लोकमवाप्नुवन्।।

त्वमप्येतन्महाभाग मयोक्तं ब्रह्मणो वचः।
सम्यगाचर शुद्धात्भंस्ततः सिद्धिमवाप्स्यसि।।

वासुदेव उवाच।

इत्युक्तः स तदा शिष्यो गुरुणा धर्ममुत्तमम्।
चकार सर्वं कौन्तेय ततो मोक्षमवाप्तवान्।।

कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह।
तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति।।

अर्जुन उवाच।

को न्वसौ ब्राह्मणः कृष्ण कश्च शिष्यो जनार्दन।
श्रोतव्यं चेन्मयैतद्वै तत्त्वमाचक्ष्व मे विभो।।

0

वासुदेव उवाच।

अहं गुरुर्महाबाहो मनः शिष्य च विद्धि मे।
त्वत्प्रीत्या गुह्यमेतच्च कथितं ते धनंजय।।

मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह।
अध्यात्ममेतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत।।

ततस्त्वं सम्यगाचीर्णो धर्मेऽस्मिन्नरिकर्शन।
सर्वपापविनिर्मुक्तो मोक्षं प्राप्स्यसि केवलम्।।

पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते।
मया तव महाबाहो तस्मादत्र मनः कुरु।।

मया तु भरतश्रेष्ठ चिरदृष्टः पिता प्रभुः।
तमहं द्रष्टमिच्छामि सम्मते तव फल्गुन।।

वैशम्पायन उवाच।

इत्युक्तवचनं कृष्णं प्रत्युवाच धनंजयः।
`यदिष्टं कुरु सर्वेषामीश्वरोऽस्मान्प्रपालय।।

नमस्ते सर्वलोकात्मन्नारायण परात्पर।
मनोमलात्तपोशक्यं कर्म चाविद्यया हतम्।
दानमप्यर्थदोषेणि नाम तस्मात्कलौ स्मरेत्।।

यदि गन्तुं कृता बुद्धिर्वासुदेव नमोस्तु ते।'
गच्छावो नगरं कृष्ण गजसाह्वयमद्य वै।।

समेत्य तत्रि राजानं धर्मात्मानं युधिष्ठिरम्।
समनुज्ञाप्य राजानं स्वां पुरीं यातुमर्हसि।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकपञ्चाशोऽध्यायः।। 51 ।।