आश्वमेधिकपर्व
अध्यायः ५०
ब्रह्मोवाच।
हन्त वः सम्प्रक्ष्यामि यन्मां पृच्छथ सत्तमाः।
गुरुणा शिष्यमासाद्य यदुक्तं तन्निबोधत।।
समस्तमिह तच्छ्रुत्वा सम्यगेवावधार्यताम्।
अहिंसा सर्वभूतानामेतत्कृत्यतमं मतम्।।
एतत्पदमनुद्विग्नं वरिष्ठं धर्मलक्षणम्।
ज्ञानं निःश्रेय इत्याहुर्वृद्धा निश्चितदर्शिनः।
तस्माज्ज्ञानेन शुद्धेन मुच्यते सर्वकिल्बिषैः।।
हिंसापराश्च ये केचिद्ये च नास्तिकवृत्तयः।
लोभमोहसमायुक्तास्ते वै निरयगामिनः।।
आशीर्युक्तानि कर्माणि कुर्वते ये त्वतन्द्रिताः।
तेऽस्मिन्लोके प्रमोदन्ते जायमानाः पुनः पुनः।।
कुर्वते ये तु कर्माणि श्रद्धधाना विपश्चितः।
अनाशीर्योगसंयुक्तास्ते धीराः साधुदर्शिनः।।
अतः परं प्रवक्ष्यामि सत्वक्षेत्रज्ञयोर्यथा।
संयोगो विप्रयोगश्च तन्निबोधत सत्तमाः।।
विषयो विषयित्वं च सम्बन्धोऽयमिहोच्यते।
विषयी पुरुषो नित्यं सत्वं च विषयः स्मृतः।।
व्याख्यातं पूर्वकल्पेनि मशकोदुम्बरं यथा।
भुज्यमानं न जानीते नित्यं सत्वमचेतनम्।
यस्त्वेवं तं विजानीते यो भुङ्क्ते यश्च भुज्यते।।
अनित्यं द्वन्द्वसंयुक्तं सत्वमाहुर्मनीषिणः।
निर्द्वन्द्वो निष्कलो नित्यः क्षेत्रज्ञो निर्गुणात्मकः।।
समः संज्ञानुगश्चैव स सर्वत्र व्यवस्थितः।
न सज्जते सदा सत्वमापः पुष्करपर्णवत्।।
सर्वैरपि गुणैर्विद्वान्व्यतिषक्तो न लिप्यते।
जलबिन्दुर्यथा लोलः पद्मिनीपत्रसंस्थितः।।
एवमेवाप्यसंयुक्तः पुरुषः स्यान्न संशयः।
द्रव्यमात्रमभूत्सत्वं पुरुषस्येति निश्चयः।।
यथा द्रव्यं च कर्ता च संयोगोऽप्यनयोस्तथा।
यथा प्रदीपमादाय कश्चित्तमसि गच्छति।
तथा सत्त्वप्रदीपेन गच्छन्ति परमर्षयः।।
यावद्द्रव्यं गुणस्तावत्प्रदीपः सम्प्रकाशते।
क्षीणे द्रव्ये गुणे ज्योतिरन्तर्धानाय गच्छति।।
व्यक्तः सत्वगुणस्त्वेवं पुरुषो द्रव्यमुच्यते।
एतद्विप्रा विजानीत हन्त भूयो ब्रवीमि वः।।
सहस्रेणापि दुर्मेधा न बुद्धिमधिगच्छति।
चतुर्थेनाप्यथांशेन बुद्धिमान्सुखमेधते।।
एवं धर्मस्य विज्ञेयं संसाधनमुपायतः।
उपायज्ञो हि मेधावी सुखमत्यन्तमश्नुते।।
यथाऽध्वानमपाथेयः प्रपन्नो मनुजः क्वचित्।
क्लेशेन याति महता विनश्यत्यन्तराऽपि च।।
तथा कर्मसु विज्ञेयं फलं भवति वा न वा।
पुरुषस्यात्मनिःश्रेयः शुभाशुभनिदर्शनम्।।
यथा च दीर्घमध्वानं पद्म्यामेव प्रपद्यते।
अदृष्टपूर्वं सहसा तत्त्वदर्शनवर्जितः।।
तमेव च यथाऽध्वानं रथेनेहाशुगामिना।
गच्छत्यश्वप्रयुक्तेन तथा बुद्धिमतां गतिः।।
ऊर्ध्वं पर्वतमारुह्य नान्ववेक्षेत भूतलम्।
रथेन रथिनं पश्येत्क्लिश्यमानमचेतनम्।।
यावद्रथपथस्तावद्रथेन स तु गच्छति।
क्षीणे रथपदे विद्वान्रथमुत्सृज्य गच्छति।।
एवं गच्छति मेधावी तत्त्वयोगविधानवित्।
परिज्ञाय गुणज्ञश्च उत्तरादुत्तरोत्तरम्।।
यथाऽर्णवं महाघोरमप्लवः सम्प्रगाहते।
बाहुभ्यामेव सम्मोहाद्वधं वाञ्छत्यसंशयम्।।
नावा चापि यथा प्राज्ञो विभागज्ञः स्वरित्रया।
अश्रान्तः सलिलं गहाच्छीध्रं संतरते ह्रदम्।।
तीर्णो गच्छेत्परं पारं नावमुत्सृज्य निर्ममः।
व्याख्यातं पूर्वकल्पेन यथा रथपदातिनोः।।
स्नेहात्सम्मोहमापन्नो नावि दाशो यथा तथा।
ममत्वेनाभिभूतः संस्तत्रैव परिवर्तते।।
नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्।
तथैव रथमारुह्य नाप्सु चर्या विधीयते।।
एवं कर्म कृतं वित्त विषयस्थं पृथक्पृथक्।
यथा कर्म कृतं लोके तथा तदुपपद्यते।।
यन्नैव गन्धि नो रस्यं न रूपस्पर्सशब्दवत्।
मन्यते न मनो बुद्ध्या तत्प्रधानं प्रचक्षते।।
तत्र प्रधानमव्यक्तमव्यक्तस्य गुणो महान्।
महप्रधानभूतस्य गुणोऽहङ्कार एव च।।
अहङ्कारात्तु सम्भूतो महाभूतकृतो गुणः।
पृथक्त्वेन हि भूतानां विषया वै गुणाःस्मृताः।।
बीजधर्मं यथाऽव्यक्तं तथैव प्रसवात्मकम्।
बीजधर्मा महानात्मा प्रसवश्चेति नः श्रुतम्।।
बीजधर्मात्साहङ्कारात्प्रसवश्च पुनःपुनः।
बीजप्रसवधर्माणि महाभूतानि पञ्च वै।।
बीजधर्मिण इत्याहुः प्रसवं च प्रकुर्वते।
विशेषाः पञ्चभूतानां तेषां वित्त विशेषणम्।।
तत्रैकगुणमाकाशं द्विगुणो वायुरुच्यते।
त्रिगुणं ज्योतिरित्याहुरापश्चापि चतुर्गुणाः।।
पृथ्वी पञ्चगुणा ज्ञेया चरस्थावरसङ्कुला।
सर्वभूतकरी देवी शुभाशुभनिदर्शिनी।।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
एते पञ्चगुणा भूमेर्विज्ञेया द्विजसत्तमाः।।
पार्थिवश्च सदा गन्धो गन्धश्च बहुधा स्मृतः।
तस्य गन्धस्य वक्ष्यामि विस्तरेण बहून्गुणान्।।
इष्टश्चानिष्टगन्धश्च मधुरोऽम्लः कटुस्तथा।
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च।।
एवं दशविधो ज्ञेयः पार्थिवो गन्ध इत्युत।
शब्दः स्पर्शस्तथा रूपं द्रवश्चापां गुणाः स्मृताः।।
रसज्ञानं तु वक्ष्यामि रसस्तु बहुधा स्मृतः।
मधुरोऽम्लः कटुस्तिक्तः कषायो लवणस्तथा।।
एवं षड्विधविस्तारो रसो वारिमयः स्मृतः।
शब्दः स्पर्शस्तथा रूपं त्रिगुणं ज्योतिरुच्यते।।
ज्योतिषश्च गुणो रूपं रूपं च बहुधा स्मृतम्।
शुक्लं कृष्णं तथा रक्तं नीलं पीतारुणं तथा।।
ह्रस्वं दीर्घं कृशं स्थूलं चतुरश्राणुवृत्तकम्।
एवं द्वादशविस्तारं तेजसो रूपमुच्यते।।
विज्ञेयं ब्राह्मणैर्वृद्धैर्धर्मज्ञैः सत्यवादिभिः।
शब्दस्पर्शौ च विज्ञेयौ द्विगुणो वायुरुच्यते।।
वायोश्चापि गुणः स्पर्शः स्पर्सश्च बहुधा स्मृतः।
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च।।
कठिनश्चिक्वणः श्लक्ष्णः पिच्छिलो दारुणो मृदुः।
एवं द्वादशविस्तारो वायव्यो गुण उच्यते।।
विधिवद्ब्राह्मणैः सिद्धैर्मन्त्रज्ञैस्तत्त्वदार्शिभिः।।
तत्रैकगुणमाकाशं शब्द इत्येव च स्मृतः।
तस्य शब्दस्यि वक्ष्यामि विस्तरेण बहून्गुणान्।।
षड्जर्षभः सगान्धारो मध्यमः पञ्चमस्तथा।
अतः परं तु विज्ञेयो निषादो धैवतस्तथा।
इष्टश्चानिष्टशब्दश्च संहतः प्रतिभानवान्।।
एवं बहुविधो ज्ञेयः शब्द आकाशसम्भवः।
आकाशमुत्तमं भूतमहङ्कारस्ततः परः।।
अहङ्कारात्परा बुद्धिर्बुद्धेरात्मा ततः परः।
तस्मात्तु परमव्यक्तमव्यक्तात्पुरुषः परः।।
परावरज्ञो भूतानां विधिज्ञः सर्वकर्मणाम्।
सर्वभूतात्मभूतात्मा यं प्राप्यानन्त्यमश्नुते।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चाशोऽध्यायः।। 50 ।।