आश्वमेधिकपर्व
अध्यायः ४९
ऋषय ऊचुः।
को वा स्विदिह धर्माणामनुष्ठेयतमो मतः।
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्।।
ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे।
केचित्संशयितं सर्वं निःसंशयमथापरे।।
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे।
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे।।
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः।
एकमेके पृथक्चान्ये बहुत्वमिति चापरे।।
देशकालावुभौ केचिन्नैतदस्तीति चापरे।
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः।।
अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः।
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः।।
आहारं केचिदिच्छन्ति केचिच्चानशने रताः।
कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः।।
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान्।
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे।
उपास्य साधनं त्वेके नैतदस्तीति चापरे।।
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः।
पुण्येन यशसा चान्ये नैतदस्तीति चापरे।।
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः।
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः।।
यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे।
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः।।
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः।
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे।।
एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते।
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम।।
इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः।
यो हि यस्मिन्रतो धर्म स तं पूजयते सदा।।
तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम्।
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम।।
अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति।
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना।।
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः।
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकोनपञ्चशोऽध्यायः।। 49 ।।