आश्वमेधिकपर्व
अध्यायः ४८
ब्रह्मोवाच।
केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम्।
केचित्परममव्यक्तं केचित्परमनामयम्।
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम्।।
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत्।
आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते।।
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम्।।
प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः।
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः।।
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति।
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते।।
सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः।
अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम्।
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः।।
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्।
ज्ञानं त्यागोथ संन्यासः सात्विकं वृत्तमिष्यते।।
एतेनैवानुमानेन मन्यन्ते वै मनीषिणः।
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा।।
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः।
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते।।
पृथग्भूतस्तथा नित्यमित्येतदविचारितम्।
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः।।
तथैवैकत्वनानात्वमिष्यते विदुषां नयः।
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते।।
मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः।
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च।।
गुरुरुवाच।
इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम्।
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्व
णि अनुगीतापर्वणि अष्टचत्वारिंशोऽध्यायः।। 48 ।।