आश्वमेधिकपर्व

अध्यायः ४५

Aswamedhika Parva (Sanskrit) · Adhyaya 45
अक्षर का आकार

ब्रह्मोवाच।

बुद्धिसारं मनस्तम्भमिन्द्रियग्रामबन्धनम्।
महाभूतारविष्कम्भं निमेषपरिवेष्टनम्।।

जराशोकसमाविष्टं व्याधिव्यसनसञ्चरम्।
देशकालविचारीदं श्रमव्यायामनिःस्वनम्।।

अहोरात्रपरिक्षेपं शीतोष्णपरिमण्डलम्।
सुखदुःखान्तसंश्लेषं क्षुत्पिपासावकीलकम्।।

छायातपविलेखं च निमेषोन्मेषविह्वलम्।
शोकमोहजराकीर्णं वर्तमानमचेतनम्।।

मासार्धमासगुणितं विषमं लोकसञ्चरम्।
तमोनिचयपङ्कं च रजोवेगप्रवर्तकम्।।

सत्त्वालङ्कारदीप्तं च गुणसंघातमण्डलम्।
विरतिग्रहणाभीकं शोकसंहारवर्तनम्।।

क्रियाकारणसंयुक्तं रागविस्तारमायतम्।
लोभेप्सापरिविक्षोभं विविक्तज्ञानसम्भवम्।।

भयमोहपरीवारं भूतसंमोहकारकम्।
आनन्दप्रीतिचारं च कामक्रोधपरिग्रहम्।।

महदादिविशेषान्तमव्यक्तं प्रभवाप्ययम्।
मनोजवनमश्रान्तं कालचक्रं प्रवर्तते।।

एतद्द्वन्द्वसमायुक्तं कालचक्रमचेतनम्।
विसृजेत्संक्षिपेच्चापि बोधयेत्स्वापयेज्जगम्।।

कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः।
यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति।।

विमुक्तः सर्वसङ्क्लेशैः सर्वद्वन्द्वातिगो मुनिः।
विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम्।।

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः।
चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः।।

यः कश्चिदिह लोकेऽस्मिन्नाश्रमः परिकीर्तितः।
तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी।।

संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः।
जातौ गुणविशिष्टायां समावर्तेत वेदवित्।।

स्वदारनिरतो नित्यं शिष्टाचारो जितेन्द्रियः।
पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेदिह।।

देवतातिथिशिष्टाशी निरतो वेदकर्मसु।
इज्याप्रदानयुक्तश्च यथाशक्ति यथाविधि।।

न पाणिपादचपलो न नेत्रचपलो मुनिः।
न च वागङ्गचपल इति शिष्टस्य गोचरः।।

नित्यं यज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः।
नियतो यमदानाभ्यां सदा शिष्टैश्च संविशेत्।।

जितशिश्नोदरो मैत्रः शिष्टाचारसमन्वितः।
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम्।।

`त्रीणि धारयते नित्यं कमण्डलुमतन्द्रितः।
एकमाचमनार्थाय एकं वै पादधावनम्।
एकं शौचविधानार्थमित्येतत्त्रितयं तथा।।'

अधीत्याध्यापनं कुर्यात्तथा यजनयाजने।
दानं प्रतिग्रहं वाऽपि षङ्गुणां वृत्तिमाचरेत्।।

त्रीणि कर्माणि जानीत ब्राह्मणानां तु जीविकाः।
याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः।।

अथ शेषाणि चान्यानि त्रीणि कर्माणि यानि तु।
दानमध्ययनं यज्ञो धर्मयुक्तानि तानि तु।।

तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित्।
दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः।।

सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः।
एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि पञ्चचत्वारिंशोऽध्यायः।। 45 ।।