आश्वमेधिकपर्व

अध्यायः ४४

Aswamedhika Parva (Sanskrit) · Adhyaya 44
अक्षर का आकार

ब्रह्मोवाच।

यदादिमध्यपर्यन्तं ग्रहणोपायमेव च।
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः।।

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः।
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः।।

भूमिरादिस्तु गन्धानां रसानामाप एव च।
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते।।

शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः।
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्।।

आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते।
सावित्री सर्वविद्यानां देवतानां प्रजापतिः।।

ओङ्कारः सर्ववेदानां वचसां प्राण एव च।
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते।।

गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते।
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः।।

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम्।
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः।।

कृतमादिर्युगानां च सर्वेषां नात्र संशयः।
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा।।

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते।
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः।।

स्थावराणां तु भूतानां सर्वेषामविशेषतः।
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः।।

अहं प्रजापतीनां च सर्वेषां नात्र संशयः।
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः।।

पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः।
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा।।

तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता।
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः।।

देवदानवभूतानां पिशाचोरगरक्षसाम्।
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः।।

आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्।
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते।।

आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च।।

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम।।

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम्।।

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्।
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम्।।

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये।
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते।।

तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः।
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुश्चत्वारिशोऽध्यायः।। 44 ।।