आश्वमेधिकपर्व

अध्यायः ४६

Aswamedhika Parva (Sanskrit) · Adhyaya 46
अक्षर का आकार

ब्रह्मोवाच।

एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि।
अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान्।।

स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः।
गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः।।

गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन्।
हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान्।।

द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः।
धारयीत सदा दण्डं बैल्वं पालाशमेव वा।।

क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा।
सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह।।

मेखला च भवेन्मौञ्जी जटो नित्योदकस्तथा।
यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः।।

पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम्।
भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते।।

एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः।
न संसरति जातीषु परमं स्थानमाश्रितः।।

संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान्।
ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत्।।

चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत्।
अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः।।

अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम्।
फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन्।।

स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत्।
प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः।।

समूलफलशाकाद्यैरर्चेदतिथिमागतम्।
यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः।।

देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः।
अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः।।

दान्तो मैत्रः क्षमायुक्तः कशाञ्शमश्रु च धारयन्।
जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः।।

न्यस्तदेहः सदा दक्षो वननित्यः समाहितः।
एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः।।

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः।
य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत्।।

अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत्।
सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः।।

अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया।
कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने।।

वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित्।
लाभेन च न हृष्येत नालाभे विमना भवेत्।
न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः।।

यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः।
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः।।

अभिपूजितलाभाद्वि विजुगुप्सेत भिक्षुकः।
भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च।।

नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा।
यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम्।।

असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित्।
न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन।।

न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत्।
शून्यागारमण्यं वा वृक्षमूलं नदीं तथा।।

प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम्।
ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत्।।

अध्वा सूर्येणि निर्दिष्टः कीटवच्च चरेन्महीम्।
दयार्तं चैव भूतानां समीक्ष्य पृथिवीं चरेत्।।

सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत्।
पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित्।।

उपस्पृशेदुद्दृताभिरद्भिश्च पुरुषः सदा।
अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च।।

अक्रोधश्चानसूया च दमो नित्यमपैशुनम्।
अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः।।

अपापमशठं वृत्तमजिह्मं नित्यमाचरेत्।
जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः।।

यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम्।
धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत्।।

ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन।
यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम्।।

परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन।
दैन्यभावाच्च भूतानां संविभज्य सदा बुधः।।

नाददीत परस्वानि न गृह्णीयान्न याचयेत्।
न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः।।

मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च।
असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान्।।

न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत्।
न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः।।

श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत्।
मुधावृत्तिरसक्तश्च सर्वभूतैरसंधितः।।

आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च।
लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत्।।

सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत्।
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च।।

परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत्।
विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते।।

अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत्।
वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः।।

न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित्।
न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत्।।

इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः।
क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित्।।

निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च।
निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान्।।

निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः।
आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः।।

अपादपाणिपृष्ठं तदशिरस्कमनूदरम्।
अभिन्नगुणकर्माणं केवलं विमलं स्थिरम्।।

अगन्धमरसस्पर्शमरूपाशब्दमेव च।
अनुगम्यमनासक्तममांसमपि चैव यत्।।

निशअचिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा।
सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः।।

न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः।
वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च।।

यत्र ज्ञानवतां प्राप्तिलिङ्गग्रहणा स्मृता।
तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत्।।

गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत्।
अमूढो मूढरूपेण चरेद्धर्ममदूषयन्।।

यथैनमवमन्येरन्परे सततमेव हि।
तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन्।।

य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च।।

मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा।
एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात्।।

ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः।
एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित्।।

ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः।
निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा।।

क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि षट्चत्वारिंशोऽध्यायः।। 46 ।।