आश्वमेधिकपर्व
अध्यायः ४३
ब्रह्मोवाच।
मनुष्याणां तु राज्यः क्षत्रियो मध्यमो गुणः।
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्।।
अविः पशूनां सर्वेषामहिस्तु बिलवासिनाम्।
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च।।
न्यग्रोधो जम्बुवृक्षश्च पिप्पलः शाल्मलिस्तथा।
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः।।
एते द्रुमाणां राजानो गणानां मरुतस्तथा।
हिमवान्पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्।।
श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः।
भृशस्कन्धो महेन्द्रश्च माल्यवान्पर्वतस्तथा।।
एते पर्वतराजानो गणानां मरुतस्तथा।
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः।।
यमः पितॄणामधिपः सरितामथ सागरः।
अंभसां वरुणो राजा मरुतामिन्द्र उच्यते।।
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते।
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः।।
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः।
त्वष्टाऽधिनां पतिः सोमो विष्णुर्बलवतां वरः।
दक्षिणानां तथा यज्ञो वेदानामृच एव च।
दिशामुदीची विप्राणां सोमो राजा प्रतापवान्।।
कुबेरः सर्वरत्नानां देवतानां पुरंदरः।
एष भूताधिपः सर्गः प्रजानां च प्रजापतिः।।
सर्वेषामेव भूतानामहं ब्रह्ममयो महान्।
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते।।
राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो महान्।
ईश्वरं तं विजानीमः स विभुः स प्रजापतिः।।
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम्।
देवदानवनागानां सर्वेषामीश्वरो हि सः।।
भगदेवानुयातानां सर्वासां वामलोचना।
माहेश्वरी महादेवी प्रोच्यते पार्वती हि सा।।
उमां देवीं विजानीध्वं नारीणामुत्तमां शुभाम्।
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा।।
धर्मिकामाश्च राजानो ब्राह्मणा धर्मसेतवः।
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे।।
राज्ञां हि विषये येषामवसीदन्ति साधवः।
हीनास्ते स्वगुणैः सर्वैः प्रेत्यावाङ्मार्गगामिनः।।
राज्ञां हि विषये येषां साधवः परिरक्षिताः।
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्दमेव च।।
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः।
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्।।
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा।
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः।।
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः।
ज्योतिषां लक्षणं रूपमापश्च रसलक्षणाः।।
धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा।
स्वरव्यञ्जनसंस्कारा भारती शब्दलक्षणा।।
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात्।
मनसा चिन्तितानर्थान्बुद्ध्या चेह व्यवस्यति।।
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः।
लक्षणं मनसो ध्यानमव्यक्तं साधुलक्षणम्।।
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम्।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान्।।
संन्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्।
अतीतो द्वन्द्वमभ्येति तमोमृत्युजरातिगः।।
धर्मलक्षणसंयुक्तमुक्तं वो विधिवन्मया।
गुणानां ग्रहणं सम्यग्वक्ष्याम्यहमतः परम्।।
पार्तिवो यस्तु गन्धो वै घ्राणेन हि स गृह्यते।
प्राणस्यश्च तथा वायुर्गन्धज्ञाने विधीयते।।
अपां धातू रसो नित्यं जिह्वया स तु गृह्यते।
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते।।
तेजसस्तु गुणो रूपं चक्षुषा तच्च गृह्यते।
चक्षुःस्थश्च ततादित्यो रूपज्ञाने विधीयते।।
वायव्यस्तु सदा स्पर्शस्त्वचा प्रज्ञायते च सः।
त्वक्स्थश्चैव सदा वायुः स्पर्सने स विधीयते।।
आकाशस्य गुणो घोषः श्रोत्रेण च स गृह्यते।
श्रोत्रस्थाश्च दिशः सर्वाः शब्दज्ञाने प्रकीर्तिताः।।
मनसश्च गुणश्चिन्ता प्रज्ञया स तु गृह्यते।
हृदिस्थश्चेतनो धातुर्मनोज्ञाने विधीयते।।
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा।
निश्चित्य ग्रहणाद्व्यक्तमव्यक्तं नात्र संशयः।।
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः।
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः।।
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययम्।
सदा पश्याम्यहं लीनं विजानामि शृणोमि च।।
पुरुषस्तद्विजानीते तस्मात्क्षेत्रज्ञ उच्यते।
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति।।
आदिमद्यावसानं तत्सृज्यमानमचेतनम्।
न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः।।
न सत्यं वेद वै कश्चित्क्षेत्रज्ञस्त्वेव विन्दति।
गुणानां गुणभूतानां यत्परं परतो महत्।।
तस्माद्गुणांश्च तत्वं च परित्यज्येह तत्ववित्।
क्षीणदोषो गुणान्हित्वा क्षेत्रज्ञं प्रविशत्यथ।।
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च।
अचलश्चानिकेतश्च क्षेत्रज्ञः स परो विधिः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि त्रिचत्वारिंशोऽध्यायः।। 43 ।।