आश्वमेधिकपर्व

अध्यायः ४२

Aswamedhika Parva (Sanskrit) · Adhyaya 42
अक्षर का आकार

ब्रह्मोवाच।

अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।।

तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु।
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च।।

महाभूतविकारान्ते प्रलये प्रत्युपस्थिते।
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम्।।

यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्।।

ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे।
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन।।

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः।
क्रियाः करणयुक्ताः स्युरनित्या मोहसंज्ञिताः।।

लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः।
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः।।

बहिरात्मान इत्येते दीनाः कृपणजीविनः।
प्राणापानावुदानश्च समानो व्यान एव च।।

अन्तरात्मनि चाप्येते नियताः पञ्च वायवः।
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत्।।

त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः।
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी।।

अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा।
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते।।

एकादश च यान्याहुरिन्द्रियाणि विशेषतः।
अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः।।

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी।
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत्।।

इन्द्रियग्राम इत्येष मन एकादशं भवेत्।
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते।।

बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च।
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः।।

अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु।
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्।।

इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम्।
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः।।

`त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते।'
स्थलमापस्तथाऽ।?काशं जन्म चापि चतुर्विधम्।।

अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च।
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते।।

अपराण्यथ भूतानि खेचराणि तथैव च।
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान्।।

स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम्।
जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते।।

भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्।
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः।।

द्विपादबहुपादानि तिर्यग्गतिमतीनि च।
जरायुजानि भूतानि विकृतान्यपि सत्तमाः।।

द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना।
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः।।

विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे।
वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम्।।

एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः।
विमुक्तः सर्वपापेभ्य इति चैव निबोधत।।

`अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम्।।'

आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते।
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम्।।

द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम्।
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम्।।

तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते।
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्।।

चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते।
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्।।

पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते।
अधिभूतं तथा गन्धो वायुस्तत्रादिदैवतम्।।

एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः।
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम्।।

पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः।
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्।।

अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते।
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्।।

प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते।
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः।।

हस्तावध्यात्ममित्याहुरद्यात्मविदुषो जनाः।
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम्।।

वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते।
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्।।

अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम्।
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम्।।

अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम्।
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम्।।

अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी।
अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम्।।

यथावदध्यात्मविधिरेष वः कीर्तितो मया।
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह।।

इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च।
सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत्।।

क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते।
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम्।।

अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम्।
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा।।

गुणागुणमनासङ्गमेकचर्यमनन्तरम्।
एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम्।।

विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः।
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा।।

कामानात्मनि संयम्य क्षीणतृष्णः समाहितः।
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते।।

इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते।।

यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते।
तथेन्द्रियनिरोधेन महानात्मा प्रकाशतदे।।

यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि।
स्वयंज्योतिस्तदासूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम्।।

अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च।
मही गन्धधरा घ्राणमाकाशः श्रवणं तथा।
`दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः।।'

रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्।
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम्।।

रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम्।
संसर्गाभिरतं मूढं शरीरमिति धारणा।।

दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम्।
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते।।

एतन्महार्णवं घोरमगाधं मोहसंझितम्।
विसृजन्संक्षिपेच्चैव मोहयन्स्वापयञ्जगत्।।

कामं क्रोधं भयं लोभमभिद्रोहमथानृतम्।
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान्।।

यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः।
व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते।।

पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम्।
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत्।।

स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम्।
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि।।

सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि।
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः।।

ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा।
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः।।

स हि धाता विधाता च स प्रभुः सर्वतोमुखः।
हृदयं सर्वभूतानां महानात्मा प्रकाशते।।

तं विप्रसङ्घाश्च सुरासुराश्च
यक्षाः पिशाचाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च सर्वे
महर्षयश्चैव सदा स्तुवन्ति।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि द्विचत्वारिंशोऽध्यायः।। 42 ।।