आश्वमेधिकपर्व
अध्यायः ३९
ब्रह्मोवाच।
अतः परं प्रवक्ष्यामि तृतीयं गुणमुत्तमम्।
सर्वभूतहितं लोके सतां धर्ममनिन्दितम्।।
आनन्दः प्रीतिरुद्रेकः प्राकाश्यं सुखमेव च।
अकार्पण्यमसंरम्भः संतोषः श्रद्दधानता।।
क्षमा धृतिरहिंसा च समता सत्यमार्जवम्।
अक्रोधश्चानसूया च शौचं दाक्ष्यं पराक्रमः।।
मुधाज्ञानं मुधावृत्तं मुधासेवा मुदाश्रमः।
एवं यो युक्तधर्मः स्यात्सोमुत्रात्यन्तमश्नुते।।
निर्ममो निरहङ्कारो निराशीः सर्वतः समः।
अकामहत इत्येव सतां धर्मः सनातनः।।
विश्रंभो ह्रीस्तितिक्षा च त्यागः शौचमतन्द्रिता।
आनृशंस्यमसंमोहो दया भूतेष्वपैशुनम्।।
हर्षस्तुष्टिर्विस्मयश्च विनयः साधुवृत्तिता।
शान्तिकर्मविशुद्धिश्च भावशुद्धिर्विमोचनम्।।
उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः।
निर्ममत्वमनाशीष्ट्वमपरिक्षतधर्मता।।
मुधादानं मुधायज्ञो मुधाधीतं मुधाव्रतम्।
मुधाप्रतिग्रहश्चैव मधाध्रमो मुधातपः।।
एवंवृत्तास्तु ये केचिल्लोकेऽस्मिन्सत्वसंश्रयाः।
ब्राह्मणा ब्रह्मयोनिस्थास्ते धीराः साधुदर्शिनः।।
हित्वा सर्वाणि पापानि निःशोका ह्यजरामराः।
दिव्यं प्राप्य तु ते धीराः कुर्वते वै ततस्तनूः।।
ईशित्वं च वशित्वं च लघुत्वं चाणुता तथा।
विकुर्वते महात्मानो देवास्त्रिदिवगा इव।।
ऊर्ध्वस्रोतस इत्येते देवा वैकारिकाः स्मृताः।
विकुर्वन्तः प्रकृत्या वै दिवं प्राप्तास्ततस्ततः।।
यद्यदिच्छन्ति तत्सर्वं भजन्ते विभजन्ति च।
इत्येतत्सात्विकं वृत्तं कथितं वो द्विजर्षभाः।
एतद्विज्ञाय लभते विधिवद्यद्यदिच्छति।।
प्रकीर्तिताः सत्त्वगुणा विशेषतो
यथावदुक्तं गुणवृत्तमेव च।
नरस्तु यो वेद गुणानिमान्सदा
गुणान्स भुङ्क्ते न गुणैः स युज्यते।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकोनचत्वारिंशोऽध्यायः।। 39 ।।