आश्वमेधिकपर्व
अध्यायः ४०
ब्रह्मोवाच।
नैव शक्या गुणा वक्तुं पृथक्त्वेनैव सर्वशः।
अविच्छिन्नानि दृश्यन्ते रजः सत्वं तमस्तथा।।
अन्योन्यमनुरज्यन्ते ह्यन्योन्येनानुजीविनः।
अन्योन्यापाश्रयाः सर्वे तथाऽन्योन्यानुवर्तिनः।।
यावत्सत्वं रजस्तावद्वर्तते नात्र संशयः।
यावत्तमश्च सत्वं च रजस्तावदिहोच्यते।।
संहत्य कुर्वते यात्रां सहिताः सङ्घचारिणः।
सङ्घातवृत्तयो ह्येते वर्तन्ते हेत्वहेतुभिः।।
उद्रेकव्यतिरिक्तानां तेषामन्योन्यवर्तिनाम्।
वक्ष्यते तद्यथाऽन्यूनं व्यतिरिक्तं च सर्वशः।।
व्यतिरिक्तं तमो यत्र तिर्यग्भावगतं भवेत्।
अल्पं तत्रथ रजो ज्ञेयं सत्वमल्पतरं तथा।।
उद्रिक्तं च रजो यत्र मध्यस्रोतोगतं भवेत्।
अल्पं तत्र तमो ज्ञेयं सत्वमल्पतरं तथा।।
उद्रिक्तं च यदा सत्वमूर्ध्वस्रोतोगतं भवेत्।
अल्पं तत्र तमो ज्ञेयं रजश्चाल्पतरं तथा।।
सत्वं वैकारिकी योनिरिन्द्रियाणां प्रकाशिका।
न हि सत्वात्परो भावः कश्चिदन्यो विधीयते।।
ऊर्ध्वं गच्छन्ति सत्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणसंयुक्ता यान्त्यधस्तामसा जनाः।।
तमः शूद्रे रजः क्षत्रे ब्राह्मणे सत्वमुत्तमम्।
इत्येवं त्रिषु वर्णेषु विवर्तन्ते गुणास्त्रयः।।
दूरादपि हि दृश्यनते सहिताः सङ्घचारिणः।
तमः सत्वं रजश्चैव पृथक्त्वेनानुशुश्रुम।।
दृष्ट्वा त्वादित्यमुद्यन्तं कुचोराणां भयं भवेत्।
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः।।
आदित्यः सत्वमुद्दिष्टः कुचोरास्तु तथा तमः।
परितापोऽध्वगानां च रजसो गुण उच्यते।।
प्राकाश्यं सत्वमादित्यः संतापो रजसो गुणः।
उपप्लवस्तु विज्ञेयस्तामसस्तस्य पर्वसु।।
एवं ज्योतिष्षु सर्वेषु प्रवर्तन्ते गुणास्त्रयः।।
पर्यायेण च वर्न्तते तत्रतत्र तथातथा।।
स्थावरेषु तु भावेषु तिर्यग्भावगतं तमः।
राजसास्तु विवर्तन्ते स्नेहभावस्तु सात्विकैः।।
अहस्त्रिधा तु विज्ञेयं त्रिधा रात्रिर्विधीयते।
मासार्दमासवर्षाणि ऋतवः सन्धयस्तथा।।
त्रिधा दानानि दीयन्ते त्रिधा यज्ञः प्रवर्तते।
त्रिधा लोकास्त्रिधा देवास्त्रिधा विद्यास्त्रिधा गतिः।।
भूतं भव्यं भविष्यं च धर्मोऽर्थः काम एव च।
प्राणापानावुदानश्चाप्येत एव त्रयो गुणाः।।
पर्यायेण प्रवर्तन्ते तत्रतत्र तथातथा।
यत्किञ्चिदिह लोकेऽस्मिन्सर्वमेते त्रयो गुणाः।।
त्रयो गुणाः प्रवर्तन्ते ह्यव्यक्ता नित्यमेव तु।
सत्वं रजस्तमश्चैव गुणसर्गः सनातनः।।
तमोऽव्यक्तं शिवं धाम रजो योनिः सनातनः।
प्रकृतिर्विकारः प्रलयः प्रधानं प्रभवाप्ययौ।।
अनुद्रिक्तमनूनं वाऽप्यकम्पमचलं ध्रुवम्।
सदसच्चैव तत्सर्वमव्यक्तं त्रिगुणं स्मृतम्।
ज्ञेयानि नामधेयानि नरैरद्यात्मचिन्तकैः।।
अव्यक्तनामानि गुणांश्च तत्त्वतो
यो वेद सर्वाणि गतीश्च केवलाः।
विमुक्तदेहः प्रविभागतत्त्ववि-
त्स मुच्यते सर्वगुणैर्निरामयः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चत्वारिंशोऽध्यायः।। 40 ।।