आश्वमेधिकपर्व

अध्यायः ३८

Aswamedhika Parva (Sanskrit) · Adhyaya 38
अक्षर का आकार

ब्रह्मोवाच।

रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः।
निबोधत महाभागा गुणवृत्तं च राजसम्।।

संतापो रूपमायासः सुखदुःखे हिमातपौ।
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा।।

बलं शौर्यं मदो रोषो व्यायामकलहावपि।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम्।।

वधबन्धपरिक्लेशाः क्रयो विक्रय एव च।
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम्।।

उग्रं दारुणमाक्रोशः परवित्तानुरागिता।
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम्।।

वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम्।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम्।।

परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः।।
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः।।

संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक्।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च।।

संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये।
प्रधानमाशीर्युक्तं च सततं मे भवत्विति।।

स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया।
याजनाध्यापने चोभे यजनाध्ययने अपि।।

दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम्।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः।।

अभिद्रोहस्तथा माया निकृतिर्मान एव च।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः।।

दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम्।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये।।

नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः।।

भूतभव्यभविष्याणां भावानां भुवि भावनाः।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि।।

कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः।।

अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः।
प्रेत्यभाविकमीहन्ते हलौकिकमेव च।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति।।

रजोगुणा वो बहुधानुकीर्तिता
यथावदुक्तं गुणवृत्तमेव च।
नरोपि यो वेद गुणानिमान्सदा
स राजसैः सर्वगुणैर्विमुच्यते।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अष्टत्रिंशोऽध्यायः।। 38 ।।