आश्वमेधिकपर्व

अध्यायः ३३

Aswamedhika Parva (Sanskrit) · Adhyaya 33
अक्षर का आकार

ब्राह्मणि उवाच।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि।।

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्।।

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः।।

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते।।

इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना।
मुहुरुष्णं विनिःस्वस्य न किञ्चित्प्रत्यभाषत।।

तमासीनं ध्यायमानं राजानममितौजसम्।
कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः।।

समाश्वास्य ततो राजा विगते कश्यमे तदा।
ततो मूहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्।।

पितृपैतामहे राज्ये वश्ये जनपदे सति।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम्।।

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया।।

नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत्।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता।।

तदा न विषयं मन्ये सर्वो वा विषयो मम।
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम।।

यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते।।

ब्राह्मण उवाच।

पितृपैतामहे राज्ये वश्ये जनपदे सति।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया।।

कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव।
नावैषि विषयं येन सर्वो वा विषयस्तव।।

जनक उवाच।

अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु।
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत्।।

कस्येदमिति कस्य स्वमिति वेदवचस्तथा।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्।।

एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम।।

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा।।

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा।।

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा।।

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा।।

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि।
आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा।।

नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा।।

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै।।

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्।।

त्वमस्य ब्रह्मिनाभस्य दुर्वारस्यानिवर्तिनः।
सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि त्र्यस्त्रिंशोऽध्यायः।। 33 ।।