आश्वमेधिकपर्व
अध्यायः ३२
ब्राह्मण उवाच।
त्रयो वै रिपवो लोके नवधा गुणतः स्मृताः।
हर्षः स्तंभोतिमानश्च त्रयस्ते सात्विका गुणाः।।
शोकः क्रोधाभिसंरम्भो राजसास्ते गुणाः स्मृताः।
स्वप्नस्तन्द्रा च मोहश्च त्रयस्ते तामसा गुणाः।।
एतान्निकृत्य धृतिमान्बाणसङ्घैरतन्द्रितः।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः।।
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता।।
समुदीर्णेषु दोषेषु बाध्यमानेषु साधुषु।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः।।
स निगृह्यात्मनो दोषान्साधून्समभिपूज्य च।
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह।।
भूयिष्ठं विजिता दोषा निहताः सर्वशत्रवः।
एको दोषो वरिष्ठश्च वध्यः स न हतो मया।।
यत्प्रयुक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते।।
अकार्यमपि येनेह प्रयुक्तः सेवते नरः।
तं लोभमसिभिस्तीक्ष्णैर्निकृत्य सुखमेधते।।
लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रवर्तते।
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान्।
तदवाप्तौ तु लभते भूयिष्ठं तामसान्गुणान्।।
स तैर्गुणैः संहतदेहबन्धनः।
पुनःपनर्जायति कर्म चेहते।
जन्मक्षये भिन्नविकीर्मदेहो
मृत्युं पुनर्गच्छति जन्मनैव।।
तस्मादेतं सम्यगवेक्ष्य लोभं
निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्।
एतद्राज्यं नान्यदस्तीह राज्य-
मात्मैव राजा विदितो यथावत्।।
इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना।
आधिराज्य पुरस्कृत्य लोभमेकं निकृन्तता।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि द्वात्रिंशोऽध्यायः।। 32 ।।