आश्वमेधिकपर्व

अध्यायः ३४

Aswamedhika Parva (Sanskrit) · Adhyaya 34
अक्षर का आकार

ब्राह्मण उवाच।

नाहं तथा भूरु चरामि लोके
यथा त्वं मां तर्जयसे स्वबुद्ध्या।
विप्रोस्मिं मुक्तोस्मि वनेचरोस्मि
गृहस्थधर्मा व्रतवांस्तथाऽस्मि।।

नाहमस्मि यता मां त्वं पश्यसे च शुभाशुभे।
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम्।।

ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह।
तेषां मामन्तकं विद्धि दारुणामिव पावकम्।।

राज्ये पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम।।

एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः।
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु।।

लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते।
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका।।

ते भावमेकमायान्ति सरितः सागरं यथा।
बुद्ध्याऽयं गम्यते मार्गः शरीरेणि न गम्यते।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम्।।

तस्मान्मे सुभगे नास्ति परलोककृतं भयम्।
तद्भावभावनिरता ममैवात्मानमेष्यसि।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः।। 34 ।।