आश्वमेधिकपर्व

अध्यायः ३१

Aswamedhika Parva (Sanskrit) · Adhyaya 31
अक्षर का आकार

पितर ऊचुः।

अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम।।

अलर्को नाम राजर्षिरभवत्सुमहातपाः।
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः।।

स सागरान्तां धनुषा विनिर्जित्य महीमिमाम्।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे।।

स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह।
उत्सृय सुमहद्राज्यं सूक्ष्मं प्रति महामते।।

अलर्क उवाच।

मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः।।

यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान्।।

मन उवाच।

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।।

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्।।

आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति।
तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्।।

घ्राण उवाच।

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।।

अन्यान्याणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्।।

इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्।।

जिह्वोवाच।

नेमे वाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्।।

अन्यान्वाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्।।

स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः।।

त्वगुवाच।

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।।

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्।।

श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति।
तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान्।।

श्रोत्रमुवाच।

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति ततो हास्यति जीवितम्।।

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्।।

दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति।
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम्।।

चक्षुरुवाच।

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।।

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्।।

इयं निष्ठा बहुविधा प्रज्ञया त्वद्यवस्यति।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्।।

बुद्धिरुवाच।

नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।।

पितर ऊचुः।

ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम्।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु।।

सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः।
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः।।

स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्।।

योगेनात्मानमाविश्य सिद्धिं परमिकां गतः।
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह।।

अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम्।
भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम्।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्।।

इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः।
तषो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे।।

इत्युक्तः पितृभिः सोथ तपो घोरं समास्थितः।
जामदग्न्यो महाभागे सिद्धिं च परमां गतः।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकत्रिंशोऽध्यायः।। 31 ।।