आश्वमेधिकपर्व
अध्यायः २७
ब्राह्मण उवाच।
एकः शास्ता न द्वितीयोस्ति शास्ता
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनैव युक्तः प्रवणादिवोदकं
यथा नियुक्तोस्मि तथा वहामि।।
एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा गुरुणा सदैव
पुरा हता दानवाः सर्व एव।।
एको बन्धुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा बान्धवा बन्धुमन्तः
सप्तर्षयः पार्थ दिवि प्रभान्ति।।
एकः श्रोता नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तस्मिन्गुरौ गुरुवासं निरुष्यट
शक्रो गतः सर्वलोकामरत्वम्।।
एको द्वेष्टा नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा गुरुणा सदैव
लोके द्विष्टाः पन्नगाः सर्व एव।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम्।।
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम्।
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति।।
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम्।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः।।
तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम्।
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु।।
असुराणां प्रवृत्तस्तु दंभभावः स्वभावजः।
दानं देवा व्यवसिता दममेव महर्षयः।।
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः।
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः।।
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम्।
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते।।
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते।
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः।।
पापेन विचरँल्लोके पापचारी भवत्ययम्।
शुभेन विचरँल्लोके शुभचारी भवत्युत।।
कामचारी तु कामेन य हन्द्रियसुखे रतः।
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः।।
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः।
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम्।।
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः।।
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि सप्तविंशोऽध्यायः।। 27 ।।