आश्वमेधिकपर्व
अध्यायः २६
ब्राह्मण उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
चातुर्होत्रविधानस्य विधानमिह यादृशम्।। 1
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते।
शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम्।। 2
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि।
चत्वार एते होतारो यैरिदं जगदावृतम्।। 3
होतॄणां साधनं चैव शृणु सर्वमशेषतः।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम्।
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः।। 4
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः।
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः।। 5
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः।। 6
स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान्।
असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः।। 7
विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि।
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः।। 8
`अदन्हवींषि चान्नानि ममत्वेन विहन्यते।'
आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते।। 9
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम्।
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः।। 10
हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः।
न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः।। 11
मनसा मन्यते यच्च यच्च वाचा निगद्यते।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते।। 12
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत्।
मनस्येतानि संयम्य हवींष्येतानि सर्वशः।। 13
गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः।
योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः। 14
प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः।।
कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः
ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा।। 15
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः।
नारायणाय देवाययदविन्दन्पशून्पुरा।। 16
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम्।
देवं नारायणं भीरु सर्वात्मानं निबोध तम्।। 17
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षडिंशोऽध्यायः।। 26 ।।