आश्वमेधिकपर्व

अध्यायः २८

Aswamedhika Parva (Sanskrit) · Adhyaya 28
अक्षर का आकार

ब्राह्मण उवाच।

संकल्पदंशमशकं शोकहर्षहिमातपम्।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम्।।

विषयैकात्ययाध्वानं कामक्रोधकिरातकम्।
तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम्।।

ब्राह्मण्युवाच।

क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः।
कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम्।।

ब्राह्मण उवाच।

नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम्।
नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः।।

तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम्।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम्।।

न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः।
न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन।।

तस्मिन्वने सप्त महाद्रुमाश्च
फलानि सप्तातिथयश्च सप्त।
सप्ताश्रमाः सप्त समाधयश्च
दीक्षाश्च सप्तैतदरण्यरूपम्।।

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म्।।

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्।।

`शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्'

सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्।।

सुरभीण्येकवर्णानि पुष्पाणि च फलानि च।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्।।

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः।।

एको वह्निः सुमना ब्राह्मणोत्र
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति।
तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा
गुणाः फलान्यतिथयः फलाशाः।।

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम्।।

प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम्।
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम्।।

येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः।
ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते।।

सप्त स्त्रियस्तत्र चरन्ति सत्या-
स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः।
ऊर्ध्वं रसानाददते प्रजाभ्यः
सर्वान्यथा नित्यमनित्यता च।।

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह।।

यशो वर्चो भगश्चैव विजयः सिद्धतेजसः।
एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम्।।

ऋषयः पर्वताश्चैव सन्ति तत्र समासतः।
नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम्।।

नदीनां सङ्गमश्चैव वैताने समुपहरे।
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम्।।

कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः।
आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते।।

शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः।
तदरण्यमभिप्रेत्य यथातत्वमजायत।।

एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अष्टाविंशोऽध्यायः।। 28 ।।