आश्वमेधिकपर्व
अध्यायः १९
ब्राह्मण उवाच।
शुभानामशुभानां च नेह नाशोस्ति कर्मणाम्।
प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा।।
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्।।
पापं चापि तथैव स्यात्पापेन मनसा कृतम्।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते।।
यथा कर्मसमाविष्टः काममन्युसमावृतः।
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम्।।
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम्।।
सौक्ष्म्यादव्यक्तयावाच्च न च क्वचन सज्जति।
सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्।।
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः।।
स जीवः सर्वभूतानां गर्भमाविश्य भागशः।
दधाति चेतना सद्यः प्राणस्थानेष्ववस्थितः।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः।।
यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम्।
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम्।।
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत्।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्।
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्।
एवमेव शरीराणि प्रकाशयति चेतनः।।
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम्।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते।।
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते।
यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते।।
तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै।
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम।।
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्।।
संयमश्चानृशंस्य च परस्वादानवर्जनम्।
व्यलीकानामकरणं भूताना मनसा भुवि।।
मातापित्रोश्च शुश्रूषा देवतातितिपूजनम्।
गुरुपूजा घृणा शौचं नित्यमिन्द्रयसंयमः।।
प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः।।
`सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः।
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा।।'।।
एवं सत्सु सदा पश्येत्तत्रछाप्येषा ध्रुवा स्थितिः।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः।।
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्।।
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु।
यश्च योगी च मुक्तश्च स ऐतेभ्यो विशिष्यते।।
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा।
संसारतारणं ह्यस्य कालेन महता भवेत्।।
एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते।
सर्वं तत्कारणं येन निकृतोऽप्यमिहागतः।।
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्।
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम्।।
शरीरमात्मनः कृत्वा सर्वलोकपितामहः।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्।।
ततः प्रधानमसृजच्चेतनां तु शरीरिणाम्।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः।।
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्।।
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः।।
तस्य कालपरीमाणमकरोत्स पितामहः।
भूतेषु परिवृत्तिं च पनरावृत्तिमेव च।।
यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते।।
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति।
कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम्।।
यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन्।
संसारसागरं घोरं तरिष्यति सुदुस्तरम्।।
जनीमरणरोगैश्च समाविष्टः प्रधानवित्।
चेतनाव्तसु चैतन्यं समं भूतेषु पश्यति।।
निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम्।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम।।
शाश्वतस्याव्ययस्याथ् यदस्य ज्ञानमुत्तमम्।
प्रोच्यमानं मया विप्र निबोधदमशेषतः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि एकोविंशोऽध्यायः।। 19 ।।