आश्वमेधिकपर्व
अध्यायः २०
ब्राह्मण उवाच।
यः स्यादेकान्त आसीनस्तूष्णीं किञ्चिदचिन्तयन्।
पूर्वंपूर्वं परित्यज्य स निरारम्भको भवेत्।।
सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः।।
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः।
`नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः।'
अमानी निरभीमानः सर्वतो मुक्त एव सः।।
जीवितं मरणं चोभे सुखदुःखे तथैव च।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते।।
न कस्यचित्स्पृहयते नावजानाति किचन।
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः।।
अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित्।
त्यक्तधर्मार्थकामश्च निराराङ्क्षी च मुच्यते।।
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः।
क्षीणधातुः प्रशान्तात्मा निर्द्वंद्वः स विमुच्यते।।
अकर्मा चाविकाङ्क्षश्च पश्येज्जगदशाश्वतम्।
अस्वस्तमवशं नित्यं जन्ममृत्युजरायुतम्।।
वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव।।
अगन्धमरसस्पर्शमशब्दमपरिग्रहम्।
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते।।
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम्।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते।।
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान्।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः।।
सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः।
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः।।
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्मि सनातनम्।
परमाप्नोति संशान्तमचलं नित्यमक्षरम्।।
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम्।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः।।
तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे।
यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि।।
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत्।
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत्।।
तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि।।
स चेच्छक्रोत्ययं साधुर्योक्तुमात्मानमात्मनि।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि।।
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः।
यथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति।।
यथाहि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति।
तथारूपमिवात्मानं साधुयुक्तः प्रपश्यति।।
इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत्।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः।।
मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम्।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम्।।
यदा हि युक्तमात्मानं सम्यक् पश्यति देहभूत्।
न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः।।
अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते।
विनिर्भिद्य जरां मृत्युं न शोचति न हृष्यति।।
देवानामपि देवत्वं युक्तः कारयते वशी।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम्।।
विनश्यत्सु च लोकेषु न भयं तस्य जायते।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित्।।
दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः।
न विचाल्यति युक्तात्मा निस्पृहः शान्तमानसः।।
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते।
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते।।
सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठिते।
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः।।
देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्।
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन।।
सम्यग्युक्तो यदात्मानमात्मन्येव प्रपश्यति।
तदैव न स्पृहयते साक्षादपि शतक्रतोः।।
योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु।
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्परे।।
पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः।
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत।
तस्मिन्नावसथे धार्यं सबाद्याभ्यन्तरं मनः।।
प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काये स पश्यति।
तस्मिन्काये मनश्चास्य न च किञ्चन बाह्यतः।।
सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत्।।
इन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम्।।
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम्।।
भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते।
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः।।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत्।
कथमेतानि सर्वाणि शरीराणि शरीरिणाम्।।
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम्।
निरासनं निष्कसनं मलानां च पृथक् पृथक्।।
कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः।
कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि।।
जीवः कथं वहति च चेष्टमानः कलेवरम्।
किंवर्णं कीदृशं चैव निवेशयति वै मनः।।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ।
इति सम्परिपृष्टोऽहं तेन विप्रेणि माधव।।
प्रत्यब्रवं महाबाहो यथाश्रुतमरिंदम।
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत्।।
तथा स्वकाये प्रक्षिप्य मनोद्वारैरनिश्चलैः।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत्।।
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित्।।
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः।
मनसैव प्रदीपेन महानात्मा प्रदृश्यते।।
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति।।
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति।
स तमुत्सृज्य देहं स्वं पारयेद्ब्रह्म केवलम्।।
आत्मानमालोकयति मनसा प्रहसन्निव।
तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि।।
इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम।
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम्।।
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः।।
वासुदेव उवाच।
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः।
मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत।।
कच्चिदेतत्त्वया पार्थ श्रुत्मेकाग्रचेतसा।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि।।
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः।
नरेणाकृतसङ्गेन विशुद्धेनान्तरात्मना।।
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ।
कच्चित्त्विदं श्रुतं पार्थ मनुष्येणेह कर्हिचित्।।
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ।
नैतदन्येनि विज्ञेयं व्यामिश्रेणान्तरात्मना।।
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः।
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम्।।
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम्।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी।।
इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।
किं पुनर्ब्रह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणः।।
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने।
सिद्धिं फलं च मोक्षश्च दुःखस्य च विनिर्णियः।।
नातः परं सुखं त्वन्यत्किंचित्स्याद्भरतर्षभ।
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव।।
यः परित्यज्यते मर्त्यो लोकसारमसरवत्।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते।।
एतावदेव वक्तव्यं नान्तो भूयोस्ति किञ्चन।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि विंशोऽध्यायः।। 20 ।।