आश्वमेधिकपर्व
अध्यायः १८
वासुदेव उवाच।
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान्।
पप्रच्छ तांश्च धर्मान्स प्राह धर्मभृतांवरः।।
काश्यप उवाच।
कथं शरीराच्च्यवते कथं चैवोपपद्यते।
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते।।
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति।
शरीरे च विनिर्मुक्तो कथमन्यत्प्रपद्यते।।
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः।
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठते।।
ब्राह्मण उवाच।
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत।
आनुपूर्व्येण वार्ष्णेय तन्मे निगदतः शृणुः।।
सिद्ध उवाच।
`अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियाःस्मृताः।
आयुःकीर्तिकराणीह यानि कृत्यानि सेवते।
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः।।
आयुःक्षयपरीतात्मा विपरीतानि सेवते।
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते।।
सत्त्वं बलं च कालं चाविदित्वा चात्मनस्तथा।
अतिवेलमुपाश्नाति स्वविरुद्धान्यनात्मवान्।।
यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते।
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन।।
दुष्टान्नामिषपानं च यदन्योन्यविरोधि च।
गुरु चाप्यमितं भुङ्क्ते नातिजीर्णे दिवा पुनः।।
व्यायाममतिमात्रं च व्यावाय चोपसेवते।
सततं कर्मलोभाद्वा प्राप्तं वेगं विधारयेत्।।
रसाभियुक्तमन्नं वा दिवास्वप्नं च सेवते।
अपक्वानागते काले स्वयं दोषान्प्रकोपयेत्।।
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्।
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति।।
तस्य तैः कारणैर्जन्तोः शरीरं च्यवते तदा।
जीवितं प्रोच्यमानं तद्यथावदुपधारय।।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः।
शरीरमनुपर्येत्य सर्वान्प्राणान्रुणद्धि वै।।
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः।
भिनत्ति जीवस्थानानि तानि कर्मणि विद्धि च।।
ततः सवेदनः सद्यो जीवः प्रच्यवते क्षरन्।
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु।
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम।।
जनीमरणसंविग्राः सततं सर्वजन्तवः।
दृश्यन्ते संत्यजन्तश्च शरीराणि द्विजर्षभ।।
गर्भसंक्रमणे चापि गर्भाणापुपसर्पणे।
तादृशीमेव लभते वेदनां मानवः पुनः।।
भिन्नसंधिरथ क्लेदमद्भिः स लभते नरः।।
यथा पञ्चसु भूतेषु सम्भूतत्वं नियच्छति।
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः।।
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः।
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणः।
शरीरं च जहात्येवं निरुच्छ्वासश्च दृश्यते।।
स निरूष्मा निरुच्छ्वासो निःश्रीको गतचेतनः।
कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः।।
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत्।
तैरेव न विजानाति प्राणानाहारसम्भवान्।।
तत्रैव कुरुते काये यः स जीवः सनातनः।।
तथा यद्यद्भवेन्मुक्तं सन्निपाते क्वचित्क्वचित्।
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा।।
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन्।
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै।।
ततः सचेतनो जन्तुर्नाभिजानाति किञ्चन।
तमसा संवृतज्ञानः संवृतेष्वेव मर्मसु।
स जीवो निरदिष्ठानश्चाल्यते मातरिश्वना।।
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्।
निष्क्रमन्कम्पयत्याशु तच्छरीरमचेतनम्।।
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः।
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते।।
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः।
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः।।
यथान्धकारे खद्येतं दीप्यमानं ततस्ततः।
चक्षुष्मन्तः प्रपश्यन्ति तथा च ज्ञानचक्षुषः।।
पश्यन्त्येवंविधं सिद्धा जीवं दिव्येन चक्षुषा।
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम्।।
तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः।
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः।।
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः।
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः।।
इहैवाशुभकर्माणः कर्मभिर्निरयं गताः।
अवाग्गतिरियं कष्टा यत्र पच्यन्ति मानवाः।
तस्मात्सुदुर्लभो मोक्षो रक्ष्यश्चात्मा ततो भृशम्।।
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः।
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे।।
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयम्।
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्।।
यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम्।
स्थानान्येतानि जानीहि जनानां पुण्यकर्मणाम्।।
कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः।
तत्रापि च विशेषोस्ति दिवि नीचोच्चमध्यमः।।
न च तत्रापि संतोषो दृष्ट्वा दीप्ततरां श्रियम्।
इत्येता गतयः सर्वाः पृथक्ते समुदीरिताः।।
उपपत्तिं तु वक्ष्यामि गर्भस्याहमतः परम्।
तथावत्तां निगदतः शृणुष्वावहितो द्विज।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि अष्टादशोऽध्यायः।। 18 ।।