आश्वमेधिकपर्व
अध्यायः १७
जनमेजय उवाच।
सभायां वसतोस्तत्र निहत्यारीन्महात्मनोः।
केशवार्जुनयोः का नु कथा समभवद्द्विज।।
वैशम्पायन उवाच।
कृष्णेन सहितः पार्थः स्वं राज्यं प्राप्य केवलम्।
तस्यां सभायां दिव्यायां विजहार मुदा युतः।।
तत्र कञ्चित्सभोद्देशं स्वर्गोद्देशसमं नृप।
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ।।
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः।
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत्।।
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते।
महात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम्।।
यत्तु तद्भवता प्रोक्तं पुरा केशव सौहृदात्।
तत्सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः।।
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः।
भवांस्तु द्वारकां गन्ता नचिरादिव माधव।।
वैशम्पायन उवाच।
एवमुक्तस्तु तं कृष्णः फाल्गुनं प्रत्यभाषत।
परिष्वज्य महातेजा वचनं वदतांवरः।।
वासुदेव उवाच।
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्।
धर्मं स्वरूपिणं पार्त सर्वलोकांश्च शाश्वतान्।।
अबुद्ध्या यन्न गृह्णीतास्तन्मे सुमहदप्रियम्।
न च साऽद्य पुनर्भूयः स्मृतिर्मे सम्भविष्यति।।
नूनमश्रद्दधानोऽसि दुर्मेधा ह्यसि पाण्डव।
न च शक्यं पुनर्वक्तुमशेषेण धनंजय।।
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने।
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः।।
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया।
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्।।
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि।
शृणु धर्मभृतांश्रेष्ठ गदतः सर्वमेव मे।।
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिंदम।
ब्रह्मलोकाच्च दुर्धर्षः सोस्माभिः पूजितोऽभवत्।।
अस्माभिः परिपृष्ठश्च यदाह भरतर्षभ।
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्।।
ब्राह्मण उवाच।
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि।
भूतानामनुकम्पार्थं मन्मोहच्छेदनं विभो।।
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन।
शृणुष्वावहितो भूत्वा गदतो मम माधव।।
कश्चिद्विप्रस्तपोयुक्तः काश्यपो धर्मवित्तमः।
आससाद द्विजं कंचिद्धर्माणामागतागमम्।।
गतागमं सुबहुशो ज्ञानविज्ञानपारगम्।
लोकतत्त्वार्थकुशलं ज्ञातरं सुखदुःखयोः।।
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः।
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्।।
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम्।
दीप्यमानं श्रिया ब्राह्मया क्रममाणं च सर्वशः।।
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः।
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह।।
सम्भाषमाणमेकान्ते समासीनं च तैः सह।
यदृच्छया च गच्छन्तमसक्तं पवनं यथा।।
तं समासाद्य मेधावी स तदा द्विजसत्तमः।
चरणौ धर्मकामो वै स तस्य सुसमाहितः।
प्रतिपदे यथान्यायं भक्त्या परमया युतः।।
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्।
परिचारेण महता गुरुं तं पर्यतोषयत्।।
उपपन्नं च तत्सर्वं श्रुतचारित्रसंयुतम्।
भौमेनातोषयच्चैनं गुरुवृत्तिं समास्थितः।।
तस्मै तुष्टः स शिष्याय यत्प्रसन्नोऽब्रवीद्गुरुः।
सिद्धिं परामभिप्रेक्ष्य शृणु मत्तो जनार्दन।।
सिद्ध उवाच।
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः।
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम्।।
न क्वचित्सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः।
स्थानाच्च महतो भ्रंशो दुःखलब्दात्पुनः पुनः।।
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्।
काममन्युपरीतेन तृष्णया मोहितेन च।।
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः।
आहारा विविधा भुक्ताःपीता नानाविधाःस्तनाः।।
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः।
सुखानि च विचित्राणि दुःखानि च मयाऽनघ।।
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह।
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्।।
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा।
शारीरा मानसा वाऽपि वेदना भृशदारुणाः।।
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः।
पतनं निरये चैव यातनाश्च यमक्षये।।
जरारोगाश्च सततं व्यसनानि च भूरिशः।
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया।।
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च।
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया।।
लोकेऽस्मिन्ननुभूयाहमिमं मार्गमनुष्ठितः।
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया।
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्।।
आसिद्धेराप्रजासर्गादात्मनोपि गतीः शुभाः।
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा।।
इतः परं गमिष्यामि ततः परतरं पुनः।
ब्रह्मणः पदमव्यक्तं मा तेऽभूतत्र संशयः।।
नाहं पुनरिहागन्ता मर्त्यलोकं परन्तप।
प्रीतोस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते।।
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः।
अभिजाने च तदहं यदर्थं मामुपागतः।।
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्।
भृशं प्रीतोस्मि भवतश्चारित्रेण विचक्षण।।
परिपृच्छ यावद्भवतो भाषे यद्यत्तवेप्सितम्।।
बहुमन्ये च ते बुद्धिं भृशं सम्पूजयामि च।
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अनुगीतापर्वणि सप्तदशोऽध्यायः।। 17 ।।