आश्वमेधिकपर्व

अध्यायः १६

Aswamedhika Parva (Sanskrit) · Adhyaya 16
अक्षर का आकार

जनमेजय उवाच।

विजिते पाण्डवेयैस्तु प्रशान्ते च द्विजोत्तम।
राष्ट्रे ते चत्रतुर्वीरौ वासुदेवधनंजयौ।।

वैशम्पायन उवाच।

विजिते पाण्डवै राजन्प्रशान्ते च विशाम्पतौ।
राष्ट्रे बभूवतुर्हृष्टौ वासुदेवधनंजयौ।।

विजह्राते मुदा युक्तौ दिवि देवश्वराविव।
तौ वनेषु विचित्रेषु पर्वतेषु ससानुषुः।।

तीर्थेषु चैव पुण्येषु पल्वलेषु नदीषु च।
चंक्रम्यमाणौ संहृष्टावश्विनाविव नन्दने।।

इन्द्रप्रस्थे महात्मानौ रेमाते कृष्णपाण्डवौ।
प्रविश्य तां सभां रम्यां विजह्राते च भारत।।

तत्र युद्धकथाश्चित्राः परिक्लेशांश्च पार्थिव।
कथायोगे कथायोगे कथयामासतुः सदा।।

ऋषीणां देवतानां च वंशांस्तावाहतुः सदा।
प्रीयमाणौ महात्मानौ पुराणावृषिसत्तमौ।।

मधुरास्तु कथाश्चित्राश्चित्रार्थपदनिश्चयाः।
निश्चयज्ञः स पार्थाय कथयामास केशवः।।

पुत्रशोकाभिसंतप्तं ज्ञातीनां च सहस्रशः।
कथाभिः शमयामास पार्तं शौरिर्जनार्दनः।।

स तमाश्वास्य विधिवद्विधानज्ञो महातपाः।
अपहृत्यात्मनो भारं विशश्रामेव सात्वतः।।

ततः कथान्ते गोविन्दो गुडाखेशमुवाच ह।
सान्त्वयञ्श्लक्ष्णया वाचा हेतुयुक्तमिदं वचः।।

विजितेयं धरा कृत्स्ना सव्यसाचिन्परंतप।
त्वद्बाहुबलामाश्रित्य राज्ञा धर्मसुतेन ह।।

असपत्नां महीं भुङ्क्ते धर्मराजो युधिष्ठिरः।
भीमसेनानुभावेन यमयोश्च नरोत्तम।।

धर्मेणि राज्ञा धर्मज्ञ प्राप्तं राज्यमकण्टकम्।
धर्मेण निहतः सङ्ख्ये स च राजा सुयोधनः।।

अधर्मरुचयो लुब्धाः सदा चाप्रियवादिनः।
धार्तराष्ट्रा दुरात्मानः सानुबन्धा निपातिताः।।

प्रशान्तामखिलां पार्थ पृथिवीं पृथिवीपतिः।
भुङ्क्ते धर्मसुतो राजा त्वया गुप्तः कुरूद्वह।।

रमे चाहं त्वया सार्धमरण्येष्वपि पाण्डव।
किमु यत्र जनोऽयं वै पृथा चामित्रकर्मन।।

यत्र धर्मसुतो राजा यत्र यत्र भीमो महाबलः।
यत्र माद्रवतीपुत्रौ रतिस्तत्र परा मम।।

तथैव स्वर्गलोकेषु सभोद्देशेषु कौरव।
रमणीयेषु पुष्णेषु सहितस्य त्वयाऽनध।।

कालो महांस्त्वतीतो मे शूरसूनुमपश्यतः।
बलदेवं च कौरव्यं तथाऽन्यान्वृष्णिपुङ्गवान्।।

सोहं गन्तुमभीप्सामि पुरीं द्वारावतीं प्रति।
रोचतां गमनं तुभ्यं ममापि पुरुषर्षभ।।

उक्तो बहुविधं राजा तत्रतत्र युधिष्ठिरः।
सह भीष्मेण यद्युक्तमस्माभिः शोकर्शितः।।

शिष्टो युधिष्टिरोऽस्माभिः शास्ता सन्नपि पाण्डवः।
तेन तत्तु वचः सम्यग्गृहीतं सुमहात्मना।।

धर्मपुत्रे हि धर्मज्ञे कृतज्ञे सत्यवादिनि।
सत्यं धर्मो मतिश्चाग्र्या स्थितिश्च सततं स्थिरा।।

तत्र गत्वा महात्मानं यदि ते रोचतेऽर्जुन।
अस्मद्गमनसंयुक्तं वचो ब्रूहि जनाधिपम्।।

न हि तस्याप्रियं कुर्यां प्राणत्योगेऽप्युपस्थिते।
कुतो गन्तुं महाबाहो पुरीं द्वारावतीं प्रति।।

सर्वं त्विदमहं पार्त त्वत्प्रीतिहितकाम्यया।
ब्रवीमि सत्यं कौरव्य न मिथ्यैतत्कथञ्चन।।

प्रयोजनं च निर्वृत्तमिह वासेन मेऽर्जुन।
धार्तराष्ट्रो हतो राजा सबलः सपदानुगः।।

पृथिवी च वशे तात धर्मपुत्रस्य धीमतः।
स्थिता समुद्रवसना सशैलवनकानना।।

चिता रत्नैर्बहुविधैः कुरुराजस्य पाण्डव।
धर्मेण राजा धर्मज्ञः पातु सर्वां वसुन्धराम्।।

उपास्यमानो मुनिभिः सिद्धैश्चापि महात्मभिः।
स्तूयमानश्च सततं बन्दिभिर्भरतर्षभ।।

तं मया सह गत्वाऽद्य राजानं कुरुवर्धनम्।
आपृच्छ कुरुशार्दूल गमनं द्वारकां प्रति।।

इदं शरीरं वसु यच्च मे गृहे
निवेदितं पार्थ सदा युधिष्ठिरे।
प्रियश्च मान्यश्च हि मे युधिष्ठिरः
सदा कुरूणामधिपो महामतिः।।

प्रयोजनं चापि निवासकारणे
न विद्यते मे त्वदृते नृपात्मज।
स्थिता हि पृथ्वी तव पार्थ शासने
गुरोः सुवृत्तस्य युधिष्ठिरस्य च।।

इतीदमुक्तः स तदा महात्मना
जनार्दनेनामितविक्रमोऽर्जुनः।
तथेति दुःखादिव वाक्यमैरय-
ज्जनार्दनं सम्प्रतिपूज्य पार्थिव।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि षोडशोऽध्यायः।। 16 ।।