आश्वमेधिकपर्व
अध्यायः १५
`वैशम्पायन उवाच।
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्।
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिः सह।।
यथा मनुर्महाराजो रामो दाशरथिर्यथा।
तथा भरतसिंहोऽपि पालयामास मेदिनीम्।।
नाधर्म्यमभवत्तत्र सर्वो धर्मरुचिर्जनः।
बभूव नरशार्दूल यथा कृतयुगे तथा।।
कलिमासन्नमाविष्टं निवार्य नृपनन्दनः।
भ्रातृभिः सहितो धीमान्बभौ धर्मबलोद्धतः।।
ववर्ष भगवान्देवः काले देशे यथेप्सितम्।
निरामयं जगदभूत्क्षुत्पिपासे न किञ्चन।।
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः।
ब्राह्म्णप्रमुखा वर्णास्ते स्वधर्मोत्तराः शुभाः।।
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम्।
धर्मासनस्थः सद्भिः स स्त्रीबालातुरवृद्धकान्।
वर्णक्रमान्पूर्णभृतान्साकल्याद्रक्षणोद्यतः।।
अवृत्तिवृत्तिदानाद्यैर्यज्ञाद्यैर्व्याधितैरपि।
आमुष्मिकं भयं नास्ति लौकिकं कृतमेव।।
स्वर्गलोकोपमो लोकस्तदा तस्मिन्प्रशासति।
बभूव सुखमेवाग्रं तद्विशिष्टतरं परम्।।
नार्यः पतिव्रताः सर्वा रूपवत्यः स्वलंकृताः।
यथोक्तवृत्ताः स्वगुणैर्बभूवुः प्रीतिहेतवः।।
पुमांसः पुण्यशीलाढ्याः स्वंस्वं धर्ममनुव्रताः।
सुखिनः सूक्ष्ममप्येनो न कुर्वन्ति कदाचन।।
सर्वे नरांश्च नार्यश्च सततं प्रियवादिनः।
अजिह्ममनसः शुक्ला बभूवुः श्रमवर्जिताः।।
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः।
सुवाससः सुगन्धाढ्याः प्रायशः पृथिवीतले।।
सर्वे ब्रह्मविदो विप्राः सर्वत्र परिनिष्ठिताः।
वलीपलितहीनास्तु सुखिनो दीर्घदर्शिनः।।
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः।
मनुष्याणां महाराज मर्यादा सुव्यवस्थिता।।
तस्मिञ्शासति राजेन्द्रे मृगव्यालसरीसृपाः।
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन।।
गावः सुक्षीरभूयिष्ठाः सुस्ववालमुखोदराः।
अपीडिताः कर्षकाद्यैर्हृतव्याधिकवत्सकाः।।
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात्।
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः।।
सुवृत्ता वृषभाः पुष्टा रसनाभाः सुखोदयाः।।
अतीव मधुरः शब्दः स्पर्शश्चातिसुखं रसम्।
करूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ।।
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम्।
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम्।।
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा।
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः।।
मनोनुकूलाः सर्वेषां चेष्टाभूतापवर्जिताः।
तथा बभूव राजर्षिस्तद्वृत्तमभवद्भुवि।।
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः।
ज्येष्ठानुवर्तिनः सर्वे बभूवुः प्रियदर्शनाः।।
सिंहोरस्का जितक्रोधास्तेजोबलसमन्विताः।
आजानुबाहवः सर्वे दानशीला जितेन्द्रियाः।।
तेषु शासत्सु धरणीमृतवः स्वगुणैर्बभुः।
सुखोदयाय वर्तन्ते ग्रहास्तारागणैः सह।।
मही च सस्यबहुला सर्वरत्नगुणोदया।
कामधुग्धेनुवद्भोगान्फलन्ति स्म सहस्रधा।।
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः।
अनतिक्रम्य ताः सर्वाः कुलेषु समयानि च।
अन्वशासत राजानो धर्मपुत्रप्रियंकराः।।
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः।
मनुप्रणीतया वृत्त्या तेऽन्वशासनसुन्धराम्।।
राजवृत्तिर्हि सा शश्वद्धर्मिष्ठाऽभून्महीतले।
प्रायो लोकमतिस्तान राजवृत्तानुगामिनी।।
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत्।
शशास जिष्णुना सार्धं गोत्रां गाण्डीवधन्वन'।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
अश्वमेधपर्वणि पञ्चदशोऽध्यायः।। 15 ।।