आश्वमेधिकपर्व
अध्यायः ११२
युधिष्ठिर उवाच।
चक्रायुध नमस्तेऽस्तु देवेश गरुडध्वज।
चान्द्रायणविधिं पुण्यमाख्याहि भगवन्मम।।
भगवानुवाच।
शृणु पाण्डव तत्वेन सर्वपापप्रणाशनम्।
पापिनो येन शुद्ध्यन्ति तत्ते वक्ष्यामि सर्वशः।।
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा चरितव्रतः।
यथावत्कर्तुकामो वै तस्यैवं प्रथमा क्रिया।।
शोधयेत्तु शरीरं स्वं पञ्चगव्येन यन्त्रितः।
सशिरः कृष्णपक्षस्य ततः कुर्वीत वापनम्।।
शुक्लवासाः शुचिर्भूत्वा मौञ्जीं बध्नीत मेखलाम्।
पालाशद्ण्डमादाय ब्रह्मचारिव्रते स्थितः।।
कृतोपलासः पूर्वं तु शुक्लप्रतिपदि द्विजः।
नदीसंगमतीर्थेषु शुचौ देशे गृहेऽपि वा।
गोमयेनोपलिप्रेऽथ स्थण्डिलेऽग्निं निधापयन्।।
आघारावाज्यभागौ च प्रणवं व्याहृतीस्तथा।
वारुणं चैव पञ्चैव हुत्वा सर्वान्यथाक्रमम्।।
सत्याय विष्णवे चेति ब्रह्मर्षिभ्योऽथ ब्रह्मणे।
विश्वेभ्यो हि च देवेभ्यः सप्रजापतये तथा।।
षडुक्त्वा जुहुयात्पश्चात्प्रायश्चित्ताहुतिं द्विजः।
अतः समापयेदग्निं शान्तिं कृत्वाऽथ पौष्टिकिम्।।
प्रणम्य् चाग्निं सोमं च भस्म दिग्ध्वा यथाविधि।
नदीं गत्वा विशुद्धात्मा सोमाय वरुणाय च।
आदित्याय नमस्कृत्वा ततः स्नायात्समाहितः।।
उत्तीर्योदकमाचम्य चासीनः पूर्वतोमुखः।
प्राणायामं ततः कृत्वा पवित्रैरभिषेचनम्।।
आचान्तस्त्वमिवीक्षेत ऊर्ध्वबाहुर्दिवाकरम्।
कृताञ्जलिपुटः स्थित्वा कुर्याच्चैव प्रदक्षिणम्।।
नारायणं वा रुद्रं वा ब्रह्मणमथवाऽपि च।
वारुणं मन्त्रमूक्तं वा प्राग्भोजनमथापि वा।।
वीरघ्नमृषभफं वाऽपि तथा चाप्यघमर्षणम्।
गायत्रीं मम देवीं वा सावित्रीं वा जपेत्ततः।
शतं वाऽष्टशतं वाऽपि सहस्रमथवा परम्।।
ततो मध्याह्नकाले वै पायसं यावकं हि वा।
पाचयित्वा प्रयत्नेन प्रयतः सुसमाहितः।।
पात्रं तु सुसमादाय सौवर्णं राजतं तु वा।
ताम्रं वा मृन्मयं वापि औदुंबरमथापि वा।
वृक्षाणां याज्ञियानं तु पर्णैरार्द्रैरकुत्सितैः।
पुटकेन तु गुप्तेनि चरेद्भैक्षं समाहितः।।
ब्राह्मणानां गृहाणां तु सप्तानां नापरं व्रजेत्।
गोदोहमात्रं तिष्ठित्तु वाग्यतः संयतेन्द्रियः।।
न हसेन्न च वीक्षेत नाभिभाषेत वा स्त्रियम्।।
दृष्ट्वा मूत्रं पुरीषं वा चण्डालं वा रजस्वलाम्।
पतितं च तथा श्वानमादित्यमवलोकयेत्।।
यो हि पादुकमारुह्य सर्वदा प्रचरेद्द्विजः।
तं दृष्ट्वा पापकर्माणमादित्यमवलोकयेत्।।
ततस्त्वावसथं प्राप्तो भिक्षां निक्षिप्य भूतले।
प्रक्षाल्य पादावाजान्वोर्हस्तावाकूर्परं पुनः।
आचम्य वारिणा तेन वह्निं विप्रांश्च पूययेत्।।
पञ्च सप्ताथवा कुर्याद्भागान्भैक्षस्य तस्य वै।
तेषामन्यतमं पिण्डमादित्याय निवेदयेत्।।
ब्रह्मणे चाग्नये चैव सोमाय वरुणाय च।
विश्वेभ्यश्चैव देवेभ्यो दद्यादन्नं यथाक्रमम्।।
अवशिष्टमथैकं तु वक्त्रमात्रं प्रकल्पयेत्।।
अङ्गुल्यग्रे स्थितं पिण्डं गायत्र्या चाभिमन्त्रयेत्।
अङ्गुलीभिस्त्रिभिः पिण्डं प्राश्नीयात्प्राङ्मुखःक शुचिः।
यथा च वर्धते सोमो ह्रसते च यथा पुनः।
तथा पिण्डाश्च वर्धन्ते ह्रसन्ते च दिनेदिने।।
त्रिकालं स्नानमस्योक्तं द्विकालमथवा सकृत्।
ब्रह्मचारी सदा वाऽपि न च वस्त्रं प्रपीडयेत्।।
स्थान न दिवसं तिष्ठेद्रात्रौ वीरासनं व्रजेत्।
भवेत्स्थण्डिलशायी वाऽप्यथा वृक्षमूलिकः।।
वल्कलं यदि वा क्षौमं शाणं कार्पासकं तथा।
आच्छादनं भवेत्तस्य वस्त्रार्थं पाण्डुनन्दन।।
एवं चान्द्रायणे पूर्णे मासस्यान्ते प्रयत्नवान्।
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्चैव च दक्षिणाम्।।
चान्द्रायणेन चीर्णेन यत्कृतं तेन दुष्कृतम्।
तत्सर्वं तत्क्षणादेव भस्मीभवति काष्ठवत्।।
ब्रह्महत्या च गोहत्या सुवर्णस्तैन्यमेव च।
भ्रूणहत्या सुरापानं गुरोर्दारव्यतिक्रमः।।
एवमन्यानि पापानि पातकीयानि यानि च।
चान्द्रायणेन नश्यन्ति वायुना पांसवो यथा।।
अनिर्दशाया गोः क्षीरमौष्ठ्रमाविकमेव च।
मृतसूतकयोश्चान्नं भुक्त्वा चान्द्रायणं चरेत्।।
उपपातकिनश्चान्नं पतितान्नं तथैव च।
शूद्रस्योच्छेषणं चैव भुक्त्वा चान्द्रायणं चरेत्।।
आकाशस्थं तु हस्तस्थमधः स्रस्तं तथैव च।
परहस्तस्थितं चैव भुक्त्वा चान्द्रायणं चरेत्।।
अथाग्रेधिषोरन्नं दिधिषूपपतेस्तता।
परिवेत्तुस्तथा चान्नं परिवित्तान्नमेव च।।
कुण्डान्नं गोलकान्नं च देवलान्नं तथैव च।
तथा पुरोहितस्यान्नं भुक्त्वा चान्द्रायणं चरेत्।।
सुराऽऽसवं विषं सर्पिर्लाक्षा लवणमेव च।
तैलं चापि च विक्रीणन्द्विजश्चान्द्रायणं चरेत्।।
एकोद्दिष्टं तु यो भुङ्क्ते जनमध्यगतोऽपि यः।
भिन्नभाण्डेषु यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्।।
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च स्त्रिया सह।
कन्यया सह यो भुङ्क्ते द्विजश्चान्द्रायणं चरेत्।।
उच्छिष्टं स्थापयेद्विप्रो यो मोहाद्भोजनान्तरे।
दद्याद्वा यदि वा मोहाद्विजश्चान्द्रायणं चरेत्।।
तुम्बकोशातकं चैव पलाण्डुं गृञ्जनं तथा।
छत्राकं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत्।।
द्विजः पर्युषितं चान्नं पक्वं परगृहागतम्।
विपक्वं च तथा मांसं भुक्त्वा चान्द्रायणं चरेत्।।
उदक्यया शुना वाऽपि चण्डालैर्वा द्विजोत्तमः।
दृष्टमन्नं तु भुञ्जानो द्विजश्चान्द्रायणं चरेत्।।
****तत्पुरा विशुद्ध्यर्थमृषिभिश्चरितं व्रतम्।
पावनं सर्वभूतानां पुण्यं पाण्डवचोदितम्।।
एतेन वसवो रुद्राश्चादित्याश्च दिवं गताः।
एतदद्य परं गुह्यं पवित्रं पापनाशनम्।।
यथोक्तमेतद्यः कुर्याद्द्विजः पापप्रणाशनम्।।
स दिवं याति पूतात्मा निर्मलादित्यसंनिभः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः।। 112