आश्वमेधिकपर्व
अध्यायः ११३
वैशंपायन उवाच।
केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे।
अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप।।
युधिष्ठिर उवाच।
सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत।
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः।।
भगवानुवाच।
यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत्।
सर्वपापप्रशमनं तच्छृणुष्व युधिष्टिर।।
कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः।
तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया।।
कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः।
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते।।
जलं वा न पिबेन्मासे नान्तरं भोजनात्परम्।
आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः।।
व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च।
क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु।।
विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम्।
तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते।
ततश्चापि च्युतः कालात्पुरुषेषूपजायते।।
मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते।
कामं क्रोधं च लोभं च परित्यज्य यथाविधि।।
स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः।
जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः।।
मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः।
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु।।
अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत्।
तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना।
सह सप्तर्षिलोकेषु यथाकामं यथासुखम्।।
ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते।
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति।।
******** क्षिपेदेवमेकभुक्तेन यो नरः।
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना।।
अहिंसासत्यसहितः क्रोधहर्षविवर्जितः।
एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम्।।
विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम्।
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते।।
अवतीर्णस्ततः कालादिलावर्षेषु जायते।
तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति।।
माघमासं सदा यस्तु वर्तते चैकभुक्ततः।
मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः।
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः।।
दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि।
नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना।
त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु।।
नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना।
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः।।
तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते।
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले।।
यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा।।
पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः।
मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु।।
विमानं सारसैर्युक्तमारूढः कामगामि च।
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः।।
ततश्चापि च्युतः कालात्केतुमालेषु जायते।
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत्।।
चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते।
ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु।।
यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः।
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते।।
ततोऽवतीर्णो जायेत वर्षे रमणके पुनः।
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति।।
वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते।
द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः।।
नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम्।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु।।
फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः।
तत्पुण्यफलमासाद्य देवलोके महीयते।।
ततो हैमवते वर्षे जायते कालपर्ययात्।
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति।।
ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते।
विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि।।
नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः।
डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु।।
चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम्।
तत्पुण्यफलमासाद्य देवलोके महीयते।।
अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः।
ततश्चापि च्युतः कालादिह लोके द्विजो भवेत्।।
आषाढमासं यो राजन्नेकभुक्तेन वर्तते।
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः।।
विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः।
कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः।।
व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर।
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु।।
कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन।
तत्पुण्यफलमासाद्य देवलोके महीयते।।
ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते।
ततश्चापि च्युतः कालादिह विप्रो भविष्यति।।
श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते।
नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा।
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि।।
पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः।
लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु।।
कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव।
तत्पुण्यं सम***प्राप्य शक्रलोके महीयते।।
ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते।
तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे।।
यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते।
ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः।।
विप्रमग्रासने कृत्वा पाकभेदविवर्जितः।
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत्।।
तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत्।
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु।।
यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः।
तत्पुण्यफलमासाद्य शक्रलोके महीयते।।
ततश्चापि च्युतः कालाज्जायते धनदालये।
तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे।।
यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते।
मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना।
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा।।
विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु।।
अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन।
तत्पुण्यफलमासाद्य मम लोके महीयते।।
ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते।
तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत्।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधऱ्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः।।