आश्वमेधिकपर्व
अध्यायः १११
युधिष्ठिर उवाच।
स्वभक्तस्य हृषीकेश धर्माधर्ममजानतः।
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे।।
भगवानुवाच।
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु।
मन्त्रवद्यद्धुतं सम्यग्विधिना चाप्युपासितम्।
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम्।।
युधिष्ठिर उवाच।
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम्।
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत्।।
कस्मिन्काले कतं कस्य आधेयोऽग्निः सुरोत्तम।
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत्।।
कत्यग्नयः किमात्मानः स्थानं किं कस्य वा विभो।
कतरस्मिन्हुते स्थाने कं व्रजेदाग्निहोत्रिकः।।
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ।
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम्।।
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम्।
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः।।
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः।
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव।।
उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति।
एतत्सर्वं समासेन भक्त्या ह्युपगतस्य मे।
वक्तुमर्हसि सर्वज्ञ सर्वाधिकं नमोस्तु ते।।
भगवानुवाच।
शृणु राजन्महापुण्यमिदं धर्मामृतं परम्।
यत्तु तारयते युक्तान्ब्राह्मणानग्निहोत्रिणः।।
ब्र्हमित्वेनासृजं लोकानहमादौ महाद्युते।
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया।।
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया।
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः।।
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते।
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते।।
यस्माच्च तु नयत्यग्रां गतिं विप्रान्सुपूजितः।
यस्माच्च नयनाद्राजन्देवेष्वग्नीति कथ्यते।।
तस्माच्च दुर्हुतः सोयमलं भक्षयितुं क्षणात्।
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततः स्मृतः।।
सर्वभूतात्मको राजन्देवानामेष वै मुखम्।
प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः।।
सृष्टमात्रो जगत्सर्वमत्तुमैच्छत्पुरा खलु।
ततः प्रशमितः सोग्निरूपास्यैव मया पुरा।।
सततोपासनात्सोयमौपासन इति स्मृतः।।
आहुतिः सर्वमाख्याति तस्मिन्वसति सोनलः।
आवसथ्य इति ख्यातस्तेनासौ ब्रह्मवादिभिः।।
तस्मात्पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः।
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः।।
ते च सप्तर्षयः सिद्धाः संयतेन्द्रियबुद्धयः।
गता ह्यमरसायुज्यं ते ह्यग्न्यर्चनतत्पराः।।
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते।
तस्मिन्पञ्च महायज्ञा वैश्वदेवश्च वर्तते।।
स्थलीपाकं च गार्हं च सर्वे चास्मिन्प्रतिष्ठिताः।
गृह्यकर्मवहो यस्मात्तस्माद्गृहपतिस्तु सः।।
औपासनं चावसथ्यं सभ्यं पचनपावकम्।
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च।।
अग्निहोत्रप्रकारं च शृणु राजन्समाहितः।
त्रयाणां गुणनामानां वह्नीनामुच्यते मया।।
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्।
गृहपत्यं तु यस्यासीत्तत्तस्माद्गार्हपत्यता।।
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत्।
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः।।
आहुतिः सर्वमाख्याति हव्यं वै वहनं स्मृतम्।
सर्वहव्यवहो वह्निर्गतश्चाहवनीयताम्।।
यं चाक्सथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः।
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते।।
तेषां स भागतो वह्निः सभ्य इत्यभिधीयते।
आवतथ्यस्तु यो वह्निः प्रथमः स प्रजापतिः।।
ब्रह्मा च गार्हपत्योऽग्निस्तस्मिन्नेव हि सोभवत्।
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः।।
अहमाहवनीयोऽग्निराहोमाद्यस्य वै मुखे।
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप।।
पृथिवी गार्हपत्योऽग्निरन्तरिक्षं च दक्षिणः।
स्वर्गमाहवनीयोऽग्निरेवमग्नित्रयं स्मृतम्।।
वृत्तश्च गार्हपत्योऽग्निर्यस्माद्वृत्ता च मेदिनी।
अर्धचन्द्राकृतिस्तं वै दक्षिणाग्निस्तथा भवेत्।।
चतुरश्रं ततः स्वर्गं निर्मलं तु निरामयम्।
तस्मादाहवनीयोऽग्निश्चतुरश्रो भवेन्नृप।।
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः।
जुहोति दक्षिणं यस्तु स जयत्यन्तरिक्षकम्।।
पृथिवीमन्तरिक्षं च दिवं ऋषिगणैः सह।
जयत्याहवनीयं यो जुहुयाद्भक्तिमान्नरः।।
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते।
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः।।
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः।
यस्मात्तस्मात्प्रवर्तन्ते ततो ह्याहवनीयता।।
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः।
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते।।
इष्टो भवति सर्वाग्नेरग्निहोत्रं च तद्भवेत्।
त्राणाद्वै यजमानस्य ह्यग्निहोत्रमिति स्मृतम्।।
होइज्येषु विषादो वै विषादो दुःखमुच्यते।
दुःखं तापत्रयं प्रोक्तं तापं हि नरकं विदुः।।
आध्यात्मिकं चाधिदैवमाधिभौतिकमेव च।
एतत्तापत्रयं प्रोक्तमात्मविद्भिर्नराधिप।।
यस्माद्वै त्रायते दुःखाद्यजमानं हुतोऽनलः।
तस्मात्तु विधिवत्प्रोक्तमग्निहोत्रमिति श्रुतौ।।
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा।
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु।।
अग्निहोत्रफला दारा दत्तभुक्तफलं धनम्।।
रतिपुत्रफला दारा दत्तभुक्तफलं धनम्।।
त्रिवेदमन्त्रसंयोगादग्निहोत्रं प्रवर्तते।
ऋग्यजुःसामभिः पुण्यैः स्थाप्यते सूत्रसंयुतैः।।
वसन्ते ब्राह्मणस्य स्यादाधेयोऽग्निर्नराधिप।
वसन्तो ब्राह्मणो ज्ञेयो वेदयोनिः स उच्यते।।
अग्न्याधेयं तु येनाथ वसन्ते क्रियतेऽनघ।
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते।।
क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठः स वै नृप।
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते।
श्रीः प्रजाःक पशवश्चैव वित्तं तेजो बलं यशः।।
शरदृतौ तु वैश्यस्य ह्याधानीयो हुताशनः।
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिः स उच्यते।।
शरद्याधानमेवं वै क्रियते येन पाण्डव।
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते।।
पशवः सर्व एवैते त्रिभिः सर्वैरलङ्कृताः।
अग्निहोत्रा ह्यवर्तन्ते तैरेव ध्रियते जगत्।।
ग्राम्यारण्याश्च पशवो पृक्षाश्चैव तृणानि च।
फलान्योषधयश्चापि अग्निहोत्रकृते हविः।।
रसाः स्नेहास्तथा गन्धा रत्नानि मणयस्तथा।
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन्।।
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः।
धर्मशास्त्रं च तत्सर्वमग्निहोत्रकृते कृतम्।।
छन्दः शिक्षा च कल्पश्च तथा व्याकरणानि च।
शास्त्रं ज्योतिर्निरुक्तं चाप्यग्निहोत्रकृते कृतम्।।
इतिहासपुराणं च गाथाश्चोपनिषत्तथा।
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम्।।
यच्चैतस्यां पृथिव्यां वै किंचिदस्ति चराचरम्।
तत्सर्वमग्निहोत्रस्य कृते सृष्टं स्वयंभुवा।।
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ।
युपेष्टिपशुबन्धानां सोमपानक्रियावताम्।।
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मकम्।
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं पुराऽनघ।।
ऋग्यजुः साममन्त्राणां श्लोकतत्वार्थचिन्तनात्।
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रल्पितम्।।
वर्णाक्षरपदार्थानां सन्धिलिङ्गं प्रकीर्तितम्।
नामधातुविवेकार्थं पुरा व्याकरणं स्मृतम्।।
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु।
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्।।
यज्ञपात्रपवित्रार्थं द्रव्यसंभारणाय च।
सर्वयज्ञविकल्पाय पुराकल्पं प्रकल्पितम्।।
नामधातुविकल्पानां तत्वार्थनियमाय च।
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्।।
वेद्यर्थं पृथिवी सृष्टा संभारार्थ तथैव च।
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम्।।
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात्।
मन्त्राणां विनियोगं च प्रोक्षितं श्रपणं तथा।।
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा।
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च।।
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा।
त्रिकासमर्चनं चैव स्यानेषूपहृतं तथा।।
देवताग्रहणं मोक्षं हविषां श्रपणं तथा।
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम्।
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम्।।
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः।
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते।।
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा।
तृणानीच्छन्ति बर्हिष्ट्वमोषध्यश्च हविष्यताम्।
सोमत्वं च लताः सर्वा वेदित्वं च वसुंधर।।
यस्मात्पशुत्वमिच्छन्ति पशवः स्वर्गलिप्सया।
तस्मात्पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव।।
यूपास्तन्मन्त्रसंस्कारैर्दर्भाश्च पशवस्तथा।
यजमानेन सहिताः स्वर्गं यान्ति नरेश्वर।।
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते।
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः।।
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम्।
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून्द्विजाः।
सद्यः शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि।।
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च।
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च।।
दर्भाः संस्तरणार्तं तु रक्षसां रक्षणाय च।
पजनार्थं द्विजाः सृष्टास्तारका दिवि देवताः।।
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः।
शुश्रूषार्थं त्रयाणां वै शूद्राः सृष्टाः स्वयंभुवा।।
एवमेतज्जगत्सर्वमग्निहोत्रकृते कृतम्।
नावबुध्यन्ति ये चैव नरास्तु तमसा वृताः।।
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्।
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते।।
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः।
तैर्दत्तं सहुतं चेष्टं दत्तमध्यापितं भवेत्।।
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप।
तत्सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम्।।
मया स्थापितमादित्ये लोकस्य सुकृतं हि तत्।
धारयेद्यत्सहस्रांशुः सुकृतं ह्यग्निहोत्रिणाम्।।
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः।
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे।।
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान्।
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत्फलम्।
समानरूपा देवानां तिष्ठन्त्याबूतसंप्लवम्।।
वृथाऽग्निना च ये केचिद्दह्यन्ते ह्यग्निहोत्रिणः।
न तेऽग्निहोत्रिणां लोके मानसाऽपि व्रजन्ति ते।।
वीरघ्रास्तु दुराचारा दरिद्रास्तु नराधमाः।
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु।।
तस्मादप्रोषितैर्नित्यमग्निहोत्रं द्विजातिभिः।
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम्।।
आत्मवन्नावमन्तव्यमग्निहोत्रं युधिष्टिर।
न त्याज्यं क्षणिमप्येतदग्निहोत्रं युधिष्ठिर।।
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः।
शूद्रान्नाद्विरता दान्ताः संयतेन्द्रियबुद्धयः।।
पञ्चयज्ञपरा नित्यं लोभक्रोधविवर्जिताः।
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः।।
तेऽपि सूर्योदयप्रख्यैर्विमानैर्वायुवेगिभिः।
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर।।
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः।
इह मानुष्यके लोके जायन्ते द्विजसत्तमाः।।
बालाहिताग्रयो ये च शूद्रान्नाद्विरताः सदा।
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः।
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः।।
आतिथेयाः सदा सौम्या द्विकालं मत्परायणाः।
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम्।।
मम लोकं सपत्नीका यानैः सूर्योदयप्रभैः।
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः।।
ऐश्वर्यगुणसंपन्नाः क्रीडन्ति च यथासुखम्।
इत्येषामाहिताग्नीनां विभूतिः पाण्डुनन्दन।।
श्रुतिं केचिन्निन्दमानाः श्रुतिं दूष्यन्त्यबुद्धयः।
प्रमाणं न च कुर्वन्ति ये यान्तीहापि दुर्गतिम्।
प्रमाणमितिहासं च वेदान्कुर्वति ये द्विजाः।
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि एकादशाधिकशततमोऽध्यायः।।