आश्वमेधिकपर्व

अध्यायः ११०

Aswamedhika Parva (Sanskrit) · Adhyaya 110
अक्षर का आकार

युधिष्ठिर उवाच।

समुच्चयं च धर्माणां भोज्याभोज्यं तथैव च।
श्रुतं मया त्वत्प्रसादादापद्धर्मं ब्रवीहि मे।।

भगवानुवाच।

दुर्भिक्षे राष्ट्रसंबाधेऽप्याशौचे मृतसूतके।
धर्मकालेऽध्वनि तथा नियमो येन लुप्यते।।

दूराध्वगमनात्खिन्नो द्विजालाभेऽथ शूद्रतः।
अकृतन्नं तु यत्किंचिद्गृह्णीयादात्मवृत्तये।।

आतुरो दुःखितो वाऽपि तथाऽऽर्तो वा बुभुक्षितः।
भुञ्जन्नविधिना विप्रः प्रायश्चित्तीयते न च।।

निमन्त्रितस्तु यो विप्रो विदिवद्धव्यकव्ययोः।
मांसादीन्यपि भुञ्जानः प्रायश्चित्तीयते न च।।

अष्टौ तान्यव्रतघ्नानि आपो मूलं घृतं पयः।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्।।

अशक्तो विधिवत्कर्तुं प्रायश्चित्तानि यो नरः।
विदुषां वचनेनापि दानेनापि विशुद्ध्यति।।

अनृतावृतुकाले वा दिवा रात्रौ तथाऽपि वा।
प्रोषितस्तु स्त्रियं गच्छेत्प्रायश्चित्तीयते न च।।

युधिष्ठिर उवाच।

प्रशस्याः कीदृशा विप्रा निन्द्याश्चापि सुरेश्वर।
अष्टकायाश्च कः कालस्तन्मे कथय सुव्रत।।

भगवानुवाच।

सत्यसन्धं द्विजं दृष्ट्वा स्थानाद्वेपति भास्करः।
एष मे मण्डलं भित्त्वा याति ब्रह्म सनातनम्।।

कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान्।
श्रीमानृजउः सत्यवादी पात्रं सर्व इमे द्विजाः।।

एते चाग्रासनस्थास्ते भुञ्जानाः प्रथमं द्विजाः।
तस्यां पङ्क्त्यां तु ये वान्ये तान्पुनत्येव दर्शनात्।।

मद्भक्ता ये द्विजश्रेष्ठा मद्भक्ता मत्परायणाः।
तान्पङ्क्तिपावनान्विद्धि पूज्यांश्चैव विशेषतः।।

निन्द्याञ्शृणु द्विजान्राजन्नपि वा वेदपारगान्।
ब्राह्मणच्छद्मना लोके चरतः पापकारिणः।।

अनग्निरनधीयानः प्रतिग्रहरुचिस्तु यः।
यतस्ततस्तु भुञ्जानस्तं विद्याद्ब्रह्मदूषकम्।।

मृतसूतकपुष्टाङ्गो यश्च शूद्रान्नभुग्द्विजः।
अहं चापि न जानामि गतिं तस्य नराधिप।।

शूद्रान्नरसपुष्टाङ्गोऽप्यधीयानो हि नित्यशः।
जपतो जुह्वतो वाऽपि गतिरूर्ध्वं न विद्यते।।

आहिताग्निश्च यो विप्रः शूद्रान्नान्न निवर्तते।
पञ्च तस्य प्रणश्यन्ति आत्मा ब्रह्म त्रयोऽग्नयः।।

शूद्रप्रेषणकर्तुश्च ब्राह्मणस्य विशेषतः।
भूमावन्नं प्रदातव्यं श्वसृगालसमो हि सः।।

प्रेतभूतं तु यः शूद्रं ब्राह्ममो ज्ञानदुर्बलः।।
अनुगच्छेन्नीयमानं त्रिरात्रमशुचिर्भवेत्।।

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम्।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति।।

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजोत्तमाः।
पदेपदेऽश्वमेधस्य फलं ते प्राप्नुवन्ति हि।।

न तेषामशुभं किंचित्पापं वा शुभकर्मणाम्।
जलावगाहनादेव सद्यः शौचं विधीयते।।

शूद्रवेश्मनि विप्रेणि क्षीरं वा यदि वा दधि।
निवृत्तेन न भोक्तव्यं विद्धि शूद्रान्नमेव तत।।

विप्राणां भोक्तुकामानामत्यन्तं चान्नकाङ्क्षिणाम्।
यो विघ्नं कुरुते मर्त्यस्ततो नान्योस्ति पापकृत्।।

सर्वे च वेदाः सहषङ्भिरङ्गैः
साङ्ख्यं पुराणं च कुले च जन्म।
नैतानि सर्वाणि गतिर्भवन्ति
शीलव्यपेतस्य नृप द्विजस्य।।

ग्रहोपरागे विषुवेऽयनान्ते
पित्र्ये मघासु स्वसुते च जाते।
गयेषु पिण्डेषु च पाण्डुपुत्र
दत्तं भवेन्निष्कसहस्रतुल्यम्।।

वैशाखमासस्य तु या तृतीयाऽ-
नवद्याऽसौ कार्तिकशुक्लपक्षे।
नभस्यमासस्य च कृष्णपक्षे
त्रयोदशी पञ्चदशी न माघे।।

रहस्यमेतत्पितरो वदन्ति।।

यस्त्वेकपङ्क्त्यां विषमं ददाति
स्नेहाद्भयाद्वा यदि वाऽर्थहेतोः।
क्रूरं दुराचारमनात्मवन्तं
ब्रह्मघ्नमेनं कवयो वदन्ति।।

धनानि येषां विपुलानि सन्ति
नित्यं रमन्ते परलोकमूढाः।
तेषामयं शत्रुवरघ्नलोको
नान्यत्सुखं देहसुखे रतानाम्।।

ये चैव मुक्तास्तपसि प्रयुक्ताः
स्वाध्यायशीला जरयन्ति देहम्।
जितेन्द्रिया भूतहिते निविष्ट-
स्तेषामसौ चापि परश्च लोकः।।

ये चैव विद्यां न तपो न दानं
न चापि मूढाः प्रजने यतन्ते।
न चापि गच्छन्ति सुखानि भोगां-
स्तेषामयंक चापि परश्च नास्ति।।

युधिष्ठिर उवाच।

नारायण पुराणेश लोकावास नमोस्तु ते।
श्रोतुमिच्छामि कार्त्स्न्येन धर्मसारसमुच्चयम्।।

भगवानुवाच।

धर्मसारं महाप्राज्ञि मनुना प्रोक्तमादितः।
प्रवक्ष्यामि मनुप्रोक्तं पौराणां श्रुतिसंहितम्।।

अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः।
दृष्टमात्रात्पुनत्येते तस्मात्पश्येत तान्सदा।।

गौरकस्यैव दातव्या न बहूनां युधिष्ठिर।
सा गौर्विक्रयमापन्ना दहत्यासप्तमं कुलम्।।

बहूनां न प्रदातव्या गौर्वस्त्रं शयनं स्त्रियः।
तादृग्भूतं तु तद्दानं दातारं नोपतिष्ठति।।

आक्रम्य ब्राह्मणैर्भुक्तमनार्याणां च वेश्मनि।
गोभिश्च पुण्यं तत्तेषां राजसूयाद्विशिष्यते।।

मा ददात्विति यो ब्रूयाद्ब्राह्मणेषु च गोषु च।
तिर्यग्योनिशतं गत्वा चण्डालेषूपजायते।।

ब्राह्मणस्वं च यद्दैवं दरिद्रस्यैव यद्धनम्।
गुरोश्चापि हृतं राजन्स्वर्गस्थानपि पातयेत्।।

धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः।
द्वितायं धर्मशास्त्राणि तृतीयं लोकसंग्रहः।।

आसमुद्राच्च यत्पूर्वादासमुद्राच्च पश्चिमात्।
हिमाद्रिविन्ध्ययोर्मध्यमार्यावर्तं प्रचक्षते।।

सरावतीदृषद्वत्योर्देवनद्योर्यदन्तरम्।
तद्देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते।।

यस्मिन्देशे य आचारः पारंपर्यक्रमागतः।
वर्णानां सान्तरालानां स सदाचार उच्यते।।

कुरुक्षेत्रं च मत्स्याश्च पाञ्चालाः शूरसेनयः।
एते ब्रह्मर्षिदेशास्तु ब्रह्मावर्तादनन्तराः।।

एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
स्वं चारित्रं च गृह्णीयुः पृथिव्यां सर्वमानवाः।।

हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विशसनादपि।
प्रत्यगेव प्रयागात्तु मध्यदेशः प्रकीर्तितः।।

कृष्णसारस्तु चरति मृगो यत्र स्वभावतः।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्ततः परम्।।

एतान्विज्ञाय देशांस्तु संश्रयेरन्द्विजातयः।
शूद्रस्तु यस्मिन्कस्मिन्वा निवसेद्वृत्तिकर्शितः।।

आचारः प्रथमो धर्मो ह्यहिंसा सत्यमेव च।
दानं चैव यथाशक्ति नियमाश्च यमैः सह।।

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च।।

गर्भहोमैर्जातकर्मनामचौलोपनायनैः।
स्वाध्यायैस्तद्व्रतैश्चैव विवाहस्नातकव्रतैः।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः।।

धर्मोर्थौ यदि न स्यातां शुश्रुषा वाऽपि तद्विधा।
विद्या तस्मिन्नवप्तव्या शुभं बीजमिवोषरे।।

लौकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा।
यस्माज्ज्ञानमिदं प्राप्तं तं पूर्वमभिवादयेत्।।

सव्येन सव्यं संगृह्य दक्षिणेन तु दक्षिणम्।
न कुर्यादेकहस्तेन गुरोः पादाभिवादनम्।।

निषेकादीनि कर्माणि यः करोति यथाविधि।
अध्यापयति चैवेनं स विप्रो गुरुरुच्यते।।

कृत्वोपनयनं वेदान्योध्यापयति नित्यशः।
सकल्पान्सरहस्यांश्च स चोपाध्याय उच्यते।।

साङ्गांश्च वेदानध्याप्य शिक्षयित्वा व्रतानि च।
विवृणोति च मन्त्रार्थानाचार्यः सोभिधीयते।।

उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।
पितुः शतगुणं माता गौरवेणातिरिच्यते।।

एतेषामपि सर्वेषां गरीयान्ज्ञानदो गुरुः।
गुरोः परतरं किंचिन्न भूतं न भविष्यति।।

तस्मात्तेषां वशे तिष्ठिच्छुश्रूषापरमो भवेत्।
अवमानाद्धि तेषां तु नरकं स्यान्न संशयः।।

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान्।
रूपद्रविणहीनांश्च जातिहीनांस्च नाक्षिपेत्।।

शपता यत्कृतं पुण्यं शप्यमानं तु गच्छति।
शप्यमानस्य यत्पापं शपन्तमनुगच्छति।।

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्।
द्वेषं डंभं च मानं च क्रोधं तैक्ष्ण्यं विवर्जयेत्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि दशाधिकशततमोऽध्यायः।। 110