आश्वमेधिकपर्व
अध्यायः १०७
युधिष्ठिर उवाच।
इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः।
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात्।।
भगवानुवाच।
ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम्।
ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम्।।
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत।
वृत्तिं हरति दुर्बुद्धइस्तमाहुर्ब्रह्मघातकम्।।
आश्रमे वाऽऽलये वाऽपि ग्रामे वा नगरेऽपि वा।
अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम्।।
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप।
उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम्।।
यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम्।
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम्।।
चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा।
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम्।।
गुरुं त्वंकृत्यं हुंकृत्य अतिक्रम्य च शासनम्।
वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम्।।
क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा।
ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम्।।
यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः।
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम्।।
युधिष्ठिर उवाच।
सप्वेषामपि दानानां यत्तु दानं विशिष्यते।
अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम।।
भगवानुवाच।
अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः।
अन्नेन सदृशं दानं न भूतं न भविष्यति।।
अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः।
अबोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे।।
दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च।
अभिशप्तस्य षण्डस्य पाकभेदकरस्य च।।
चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः।
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च।।
द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम्।
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा।।
शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च।
अंबष्ठकनिषादानां रङ्गावतरकस्य च।।
सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा।
सूताना शौण्डिकानां च वैद्यस्य रजकस्य च।।
स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च।
अनिर्दशानां प्रेतानां गणिकानां तथैव च।।
बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि।
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च।।
यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा।
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत्।।
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्।
आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः।।
गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम्।
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः।।
विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत्।
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत्।।
अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत्।
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः।।
दानानां च फलं यद्वै शृणु पाण्डव तत्वतः।
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः।।
तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम्।
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः।।
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्।
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः।।
अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते।
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः।।
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम्।
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते।।
हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु।
योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च।
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये।।
अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत्।
नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत्।।
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात्।
आयुर्विप्रावमानेन दानं तु परिकीर्तनात्।।
एकः प्रजायते जन्तुरेक एव प्रमीयते।
अकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम्।।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ।
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते।।
अनागतानि कार्याणि कर्तुं गणयते मनः।
शरीरकं समुद्दिश्य स्मयते नूनमन्तकः।।
तस्माद्धर्मसहासस्तु धर्मं संचिनुयात्सदा।
धर्मेण हि सहायेन तमस्तरति दुस्तरम्।।
येषां तटाकानि बहूदकानि
सभाश्च कूपाश्च शुभाः प्रपाश्च।
अन्नप्रदानं मधुरा च वाणी
यमस्य ते निर्विषया भवन्ति।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि सप्ताधिकशततमोऽध्यायः।। 107