आश्वमेधिकपर्व

अध्यायः १०८

Aswamedhika Parva (Sanskrit) · Adhyaya 108
अक्षर का आकार

युधिष्ठिर उवाच।

अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः।
किंलक्षणोसौ भति तन्मे ब्रूहि जनार्दन।।

भगवानुवाच।

शृणु राजन्समासेन धर्मशौचविधिक्रमम्।
अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम्।।

ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम्।
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम्।।

बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम्।
वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत्।।

ब्राह्मणान्नावमन्येत गुरुन्परिवदेन्न च।
यतीनामनुकूलः स्यादेष धर्मः सनातनः।।

यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः।।

यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा।
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः।।

दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा।
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः।।

एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा।
काषायदण्डधारोपि यतिः पूज्यो न संशयः।।

अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः।
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः।।

तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः।
मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः।।

प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन।
भ्रूणहत्यासमं चैव उभयं यो निषेवते।।

नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत्।
नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत्।।

नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत्।
उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित्।।

श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत्।
सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत्।।

प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान्।
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत्।।

पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित्।
तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम्।।

तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप।
तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम्।।

प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति।
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा।।

युधिष्ठिर उवाच।

कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्।
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन।।

भगवानुवाच।

अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम्।।

अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम्।।

अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः।
स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम्।।

साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने।
शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः।।

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः।
तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर।।

गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत्।
निशम्य तु गुणोपेतं ब्राह्मअणं साधुसंमतम्।
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत्।।

युधिष्टिर उवाच।

धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम्।
भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर।।

भगवानुवाच।

अन्नेन धार्यते सर्वं जगदेतच्चराचरम्।
अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः।।

कलत्रं पीडयित्वा तु देशे काले च शक्तितः।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता।।

विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा।
अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम्।।

क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः।
अर्चयेदतिथिं प्रीतः परत्र हितभूतये।।

अतिथिं नावमन्येत नानृतां गिरमीरयेत्।
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन।।

चण्डालो वा श्वपाको वा काले यः कश्चिदागतः।
अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता।।

पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान्।
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर।।

पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान्।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत्।।

कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने।
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते।।

अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत्।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता।।

अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम्।
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः।।

बलं बलवतो नश्येदन्नहीनस्य देहिनः।
तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा।।

आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः।
वायुस्तस्मात्समादाय रसं मेधेषु धारयेत्।।

तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम्।
तेन दिग्धा भवेद्देवी मही प्रीता च ****

तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः।
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि।।

एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च।
एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे।।

भवनानि च दिव्यानि दिवि तेषां महात्मनाम्।
नानासंस्थानि भूतानि नानाभूमिगतानि च।।

चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च।
तरुणादित्यवर्णानि स्थावराणि चराणि च।।

अनेकशतसङ्ख्यानि सान्तर्जलवनानि च।
तत्र पुष्पफलोपेताः कामदाः सुरपादपाः।।

वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च।।

क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः।।

प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः।
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत्।।

।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि अष्टोत्तरशततमोऽध्यायः।। 108