आश्वमेधिकपर्व
अध्यायः १०६
वैशम्पायन उवाच।
एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम्।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्।।
देवदेवश कपिला यदा विप्राय दीयते।
कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः।।
याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम।
तासां कति सुरश्रेष्ठ् कपिलाः पुण्यलक्षणाः।।
कथं वाऽनुगृहीतास्ताः सुरैः पितृगणैरपि।
केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं मे।।
वैशम्पायन उवाच।
युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा।
गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे।।
शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम्।।
ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिभिः।।
यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह।
दृश्येते दानकालं तत्तमाहुर्मुनिसत्तमाः।।
अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति।
गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी।।
यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर।
यावत्यः सिकताश्चापि गर्भोदकपरिप्लुताः।
तावद्वर्षसहस्राणि दाता स्वर्गे महीयते।।
सुवर्णाभरणां कृत्वा सव्तसां कपिलां तिलैः।
प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम्।।
ससमुद्रा नदी तेन सशैलवनकानना।
चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा।।
पृथिवीदानतुल्येन तेन दानेन मानवः।
संसारसागरात्तीर्णो याति लोकं प्रजापतेः।।
ब्रह्महा भ्रूणहा गोघ्नो यदि वा गुरुतल्पगः।
महापातकयुक्तोपि एतद्दानेन शुद्ध्यति।।
इदं पठति यः पुण्यं कपिलादानमुत्तमम्।
प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु।।
मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर।
पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः।।
इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान्।
तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः।।
यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना।
तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति।।
अतः परं विशेषं तु कपिलानां ब्रवीमि ते।
याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव।
तासां चतस्रः प्रवराः पुण्याः पापप्रणाशनाः।।
सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला।
पिङ्गलाक्षी च या गौश्च या स्यात्पिङ्गलपिङ्गला।।
एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः।
नमस्कृता वा दृष्टा वा घ्नन्ति पापं नरस्य तु।।
यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः।
तत्र श्रीर्विजयः कीर्तिः स्फीता नित्यं युधिष्ठिर।।
एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः।
दध्ना च त्रिदशाः सर्वे घृतेन तु हुताशनः।।
पितरः पितामहाश्चैव तथैव प्रपितामहाः।
सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर।।
कपिलाया घृतं क्षीरं दधि पायसमेव वा।
श्रोत्रियेभ्यः सकृद्दत्वा नरः पापैः प्रमुच्यते।।
उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः।
कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम्।।
सौम्ये मुहूर्ते तत्प्रशय शुद्धात्मा शुद्धमानसः।
क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना।।
कपिलापञ्चगव्येन सुमन्त्रेण पृथक्पथक्।
यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा।
स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत्।।
स मुक्तपापः शुद्धात्मा यानेनांबरशोभिना।
मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा।।
ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा।
अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा।।
सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि।
सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वरैः।।
सागराः सरितश्चैव पर्वताः सबलाहकाः।
गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः।।
सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम्।
मन्त्रैशअच विविधैस्तां तु तुष्टुवुस्तामनेकशः।।
कृताञ्जलिपुटाः सर्वे नातिशृङ्गीं त्रिलोचनाम्।
मूर्ध्ना प्रणम्य तां भूमौ सवत्साममृतारणिम्।।
ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम्।
आज्ञापय महादेव किं ते कुर्मः कथं विभो।।
एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत्।
भवन्तोप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम्।।
होमधेनुरियं ज्ञेया ह्यग्नीन्संतर्पयिष्यति।
अतोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति।।
प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः।
जयिष्यथ यथाकामं दानवान्सर्व एव तु।।
जातवीर्यबलैर्युक्ताः सत्ववन्तो जितेन्द्रियाः।
असङ्ख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः।।
पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः।
पूजयिष्यन्ति वा नित्यं यज्ञैर्विविधदक्षिणैः।।
एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना।
ततः संहृष्टवदनाः कपिलायै वरं ददुः।।
देवता ऊचुः।
यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता।
तस्मात्पूता पवित्रा च भव पापव्यपोहिनी।।
ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः।
तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति।।
अकामकृतमज्ञानमदृष्टं यच्च पातकम्।
त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वसहेति च।
तेषां तद्विलयं याति तमः सूर्योदये यथा।।
भगवानुवाच।
इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम्।
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह।।
तस्यामेव समुद्भूता ह्येताश्च कपिला नव।
विचरन्ति महीमेनां लोकानुग्रहकारणात्।
तस्मात्तु कपिला देया परत्र हितमिच्छता।।
यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे।
तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति।।
चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः।
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः।।
कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ।
दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती।।
रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः।
निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः।।
नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च।
अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः।।
साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता।
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम्।।
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्।
इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा।।
नासिकायां सदा देवी ज्येष्ठा वसति भामिनी।
श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता।।
पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः।
तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः।।
जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः।।
चत्वारः सागराः पूर्णास्तस्या एव पयोधराः।
रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः।
कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः।
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा।।
देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः।
लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा।।
देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः।
वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा।।
विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा।
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः।।
ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा।
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते।।
कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे।
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम्।।
अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम्।
अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम्।
इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च।।
तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः।
तावद्देवगणाः सर्वे कपिलामर्चयन्ति च।
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम्।।
वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता।
तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता।
भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम्।।
भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः।
दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने।।
अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव।
तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं।।
अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः।
यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै।।
एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः।
दीयमानानि वर्धन्ते दातारं तारयन्ति च।।
युधिष्ठिर उवाच।
देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः।
के तत्रि पूजामर्हन्ति वर्जनीयाश्च के द्विजाः।।
भगवानुवाच।
दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम्।
कालहीनं च यद्दानं तद्दानं राजसं विदुः।।
अवघुष्टं च यद्भुक्तमनृतेन च भारत।
परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः।।
यावन्तः पतिता विप्रा जडोन्मत्तादयोपि च।
दैवे च पित्र्ये ते विप्रा राजन्नार्हन्ति सत्क्रियां।।
क्लीबः प्लङ्गी च कृष्ठी च राजयक्ष्मान्वितश्च यः।
अपस्मारी च यश्चापि पित्र्ये नार्हति सत्कृतिम्।।
चिकित्सका देवलका मिथ्यानियमधारिणः।
सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम्।।
एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः।
चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम्।।
गायका नर्तकाश्चैव प्लवका वादकास्तथा।
कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम्।।
अनग्नयश्च ये विप्राः शवनिर्यातकाश्च ये।
स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम्।।
अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः।
पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम्।।
रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः।
प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम्।।
चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः।
सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः।।
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दघि घृतं तथा।
दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत्।।
चारित्रनिरता राजन्कृशा ये कृशवृत्तयः।
अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम्।।
तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये।
अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम्।।
एवं धर्मभूतां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा।
र्श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे।।
दानं यत्ते प्रियं किंचिच्छ्रोत्रियाणां च यत्प्रियम्।
तत्प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम्।।
निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर।।
गुर्वर्थं वा भयार्थं वा नोचेदन्यत्र पाण्डव।
वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः।।
परदारापहर्तारः परदारामिमर्शकाः।
परारप्रयोक्तारस्तें वै निरयगामिनः।।
सूचकाः संधिभेत्तारः परद्रव्योपजीविनः।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः।।
वर्णाश्रमाणां ये बाह्याः पाषण्डाश्चैव पापिनः।
उपासते च तानेव ते सर्वे नरकालयाः।।
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः।
वेदानां लेखकाश्चैव ते वै निरयगामिनः।।
रसविक्रयिणो राजन्विषविक्रयिणश्च ये।
क्षीरविक्रयिणश्चापि ते वै निरयगामिनः।।
चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः।
अर्थार्थमथवा स्नेहात्ते वै निरयगामिनः।।
पशूनां दमक**यैव तथा नासानुवेधकाः
पुंस्त्वहिंसाकरस्चैव ते वै निरयगामिनः।।
अदातारः समर्था ये द्रव्याणां लोभकारणात्।
दीनानन्धान्न पश्यन्ति ते वै निरयगामिनः।।
क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सहोषितान्।
त्यजन्ति कृतकृत्या ये ते वा निरयगामिनः।।
बालानामपि वृद्धानां श्रान्तानां चापि ये नराः।
अदत्त्वाऽश्नान्ति मृष्टान्नं ते वै निरयगामिनः।।
एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः।
ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर।।
दानेन तपसा चैव सत्येन च दमेन च।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः।।
शुश्रूषयाऽप्युपाध्यायाच्छ्रुतमादाय पाण्डव।
ये प्रतिग्रहनिस्स्नेहास्ते नराः स्वर्गगामिनः।।
मधुमांसासवेभ्यस्तु निवृत्ता व्रतवत्तु ये।
परदारनिवृत्ता ये ते नराः स्वर्गगामिनः।।
मातरं पितरं चैव शुश्रूषन्ति च ये नराः।
भ्रहातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः।।
ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः।
द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः।।
वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः।
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः।।
रसानामथ बीजानामोषधीनां तथैव च।
दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः।।
क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च।
अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः।।
पर्वद्वये चतुर्दश्यामष्टम्यां संध्ययोर्द्वयोः।
आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा।
ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगाप्तिनः।।
हव्यकव्यविधानं च नरकस्वर्गगामिनौ।
धर्माधर्मौ च कथितौ किं भूयः श्रोतुमिच्छसि।।
।। इति श्रीमन्महाभारते आश्वमेधिकपर्वणि
वैष्णवधर्मपर्वणि षडधिकशततमोऽध्यायः।। 106